पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२६ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे श्वश्रूणामविशेषेण प्राञ्जलिपग्रहेण च। शिरसा वन्य चरणौ कुशलं हि पर्थिवम् ॥ शिरसाभिनतो ब्रूयाः सर्वासामेव लक्ष्मण | वक्तव्यश्चापि नृपतिधर्मेषु सुसमाहितः ।। जानासि च यथा शुद्धा सीता तत्त्वेन राघव । भक्त्या च परया युक्ता हिता च तव नित्यशः। अहं त्यक्ता त्यया वीर अयशोमीरुणा जने । यच्च ते वचनीयं स्यादपवादसमुत्थितम् ॥ १३ मया हि परिहर्तव्यं त्वं हि मे परमा गतिः । वक्तव्यश्चेति नृपतिर्धर्मेण सुसमाहितः ।। तथा आतषु वर्तेथास्तथा पौरेषु नित्यदा । परमो ह्येष धर्मस्ते तस्मात् कीतिरनुत्तमा । यत्तु पौरजनो राजन् धर्मेण समवाप्नुयात् । अहं तु नानुशोचामि स्वशरीरं नरर्षभ । १६ यथापवादं पौराणां तथैव रघुनन्दन । पतिहि देवता नार्याः पतिबन्धुः पतिर्गुरुः ।। १७ माणैरपि प्रियं तस्माद्भर्तुः कार्य विशेषतः । इति मद्वचनादामो वक्तव्यो मम संग्रहः ॥ १८ निरीक्ष्य माय गच्छ त्वमृतुकालातिवर्तिनीम् । एवं ब्रुवत्यां सीतायां लक्ष्मणो दीनचेतनः ।। शिरसावन्ध धरणीं व्याहतुं न शशाक ह । प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः ॥ २० ध्यात्वा मुहूर्त नामाह किं मां वक्ष्यसि शोभने। दृष्टपूर्व न ते रूपं पादौ दृष्टौ तवानघे ॥ २१ कथमत्र हि पश्यामि रामेण रहितां वने । इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् ।। २२ आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् । म गत्वा चोत्तरं तीरं शोकभारसमन्वितः ॥ २३ संमूढ इव दुःखेन रथमध्यारुहद्रुतम् । मुहुर्मुह: परावृत्य दृष्ट्वा सीतामनाथवत ॥ चेष्टन्ती परतीरस्थां लक्ष्मणः प्रययावथ । दूरस्थं रथमालोक्य लक्ष्मणं च मुहुर्मुहुः ।। निरीक्षमाणां तूद्विमां सीतां शोकः समाविशत् ।। सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती । सरोद स बहिणनादिते बने महाम्वनं दुःस्वपरायणा मती ।। २६ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे सीतापरित्यागो नाम अष्टचत्वारिंशः सर्ग: २५ एकोनपश्चाशः सर्गः वाल्मीक्याश्रमप्रवेशः सीतां रुदन्ती दृष्ट्वा तां तत्र वै मुनिदारकाः । प्राद्रवन् यत्र भगवानास्ते वाल्मीकिरुप्रधीः ।। अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये । सर्वे निवेदयामासुरतस्यास्तु रुदितम्वनम् ॥ अदृष्टपूर्वा भगवन् कम्याप्येषा महात्मनः । पनी श्रीरिव संमोहाद्विरीति विकृतानना ।। ३ भगवन् साधु पश्य त्वं देवतामिव खाच्च्युताम् । नद्यास्तु तीरे भगवन् वरखी कापि दुःखिता। दृष्टास्माभिः प्ररुदिता दृढं गोकपगयणा । अनर्दा दुःम्वशोकाभ्यामेका दीना न्यनाथवत ॥ ५ २ 1. सन्देशस्येति शेषः। १. चते ति.। २. धरा तिः। ३. ते ति.।