पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चाशः सर्गः १०२७ ८ न ह्येनां मानुषी विद्यः सक्रियास्याः प्रयुज्यताम् । आश्रमस्याविदुरे च त्वामियं शरणं गता ॥ त्रातारमिच्छते साध्वी भगवंस्नातुमर्हसि । तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् ।। ७ तपसा लब्धचक्षुष्मान् प्राद्रवत्र मैथिली। तं प्रयान्तमभिप्रेत्य शिष्या झेनं महामतिम् ॥ तं तु देशमभिप्रेत्य किंचित् पद्धयां महामतिः । अर्यमादाय रुचिरं जाइवीतीरमागमत् ॥ ९ ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् । तां सीतां शोकभाराता बाल्मीकिर्मुनिपुङ्गवः ॥१० उवाच मधुरां वाणी हादयन्निव तेजसा । स्नुषा दशरथस्य त्वं रामस्य महषी प्रिया ।। ११ जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते। आयान्ती चासि विज्ञाता मया धर्मसमाधिना ॥ कारणं चैव सर्व मे हृदयेनोपलक्षितम् । नव चैव महाभागे विदितं मम तत्त्वतः ॥ १३ सर्व च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते । अपापां वेमि सीते त्वां तपोलब्धेन चक्षुषा ॥१४ विस्रब्धा भव वैदेहि सांपतं मयि वर्तसे । आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः ॥ १५ तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः । इदमऱ्या प्रतीच्छ त्वं विलब्धा विगतज्वरा ॥ यथा स्वगृहमभ्येत्य विपादं चैव मा कृथाः । श्रुत्वा तु भापितं सीता मुनेः परममद्भुतम् ।। शिरसावन्द्य चरणौ तथेत्याह कृताञ्जलिः । तं प्रयान्तं मुनि सीता प्राञ्जलिः पृष्ठतोऽन्वगात् ॥ तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः । उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ।। स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते । अभिवादयामस्त्वां सर्वा उच्यता किं च कुर्महे॥२० तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् । सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ॥ २१ स्नुषा दशरथम्यैषा जनकस्य सुता सती । अपापा पतिना त्यक्ता परिपाल्या मया सदा ॥२२ इमां भवत्यः पश्यन्तु स्नेहेन पग्मेण हि । गौरवान्मम वाक्याञ्च पूज्या वोऽस्तु विशेषतः ।। २३ मुहुर्मुहुश्च वैदेही प्रणिधाय महायशाः । स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ॥ २४ इत्यार्षे श्रीमद्रामायणे वाल्मीकी ये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे वाल्मीक्याश्रमप्रवेशो नाम एकोनपञ्चाशः सर्ग: २ पश्चाशः सर्गः सुमन्त्ररहस्यकथनम् दृष्ट्वा तु मैथिली सीतामाश्रमे संप्रवेशिताम् । संतापमगमद्धोरं लक्ष्मणो दीनचेतनः ।। १ अब्रवीश्च महातेजाः सुमन्त्रं मन्त्रसारथिम् । सीतासंतापजं दुःखं पश्य रामस्य सारथे ॥ ततो दुःखतरं किं नु राघवस्य भविष्यति । पत्नी शुद्धसमाचारां विसृज्य जनकात्मजाम् ॥ ३ व्यक्तं देवादहं मन्ये राघवस्य विनाभवम् । वैदेह्या सारथे नित्यं देवं हि दुरतिक्रमम् ।। यो हि देवान् सगन्धर्वानसुरान् सह राक्षसः । निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ॥ ५ १. नयनामित्यारम्य एतदन्तं ति. न दृश्यते। ३. पर्युपासते ति.। २. ते ति।