पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षट्त्रिंशः सर्गः १००३ ३८

यदा ते स्मार्यते कीर्तिस्तदा ते बर्षते बलम् । ततः स हृततेजौजा महर्षिवचनौजसा ।। ३६
एषोऽश्रमाणि तान्येव मृदुभावं गतोऽचरत् । अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता ॥ ३७
सर्ववानरराजासीतेजसा भास्करप्रभः । स च राज्यं चिरं कृत्वा वानराणां हरीश्वरः ॥
सच ऋक्षराजा नाम कालधर्मेण संगतः । तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रको विदैः ॥ ३९
पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे । सुनीवेण समं त्वस्य अद्वैषं छिद्रवर्जितम् ॥ ४०
आबाल्यं सख्यमभवदनिलस्यामिना यथा । एष शापवशादेव न वेद बलमात्मनः ॥
वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् । न ह्येष राम सुग्रीवो आम्यमाणोऽपि वालिना ||
देव जानाति न ह्यष बलमात्मनि मारुतिः । ऋषिशापाहतबलस्तदैव कपिसत्तमः ॥
सिंह: पररूद्धो वा आस्थितः सहितो रणे ||
४३
पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च ।
गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः कोऽभ्यधिकोऽस्ति लोके ॥
असौ पुनर्व्याकरणं महीष्यन् सूर्योन्मुखः पृष्ठगमः कपीन्द्रः ।
उद्यगरेर गिरिं जगाम मन्थं महद्धारयन प्रमेयः ॥
समूत्रवृत्त्यर्थपदं महार्थे ससंग्रहं साध्यति वै कपीन्द्रः ।
न ह्यस्य कश्चित् सदृशोऽम्ति शास्त्रे वैशारदे छन्दगतौ तथैव ||
सर्वासु विद्यासु तपोविधाने प्रस्पर्धते यो हि गुरुं सुराणाम् ।
सोऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ॥
प्रवीविविक्षोरिव सागरम्य लोकान् दिधक्षोरिव पावकस्य ।
युगक्षये ह्येव यथान्तकस्य हनुमतः स्थास्यति कः पुरस्तात् * ॥
एषेव चान्ये च महाकपीन्द्राः सुप्रीवमैन्द द्विविदाः सनीलाः ।
सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः ॥
तदेतत् कथितं सर्वं यन्मां त्वं परिपृच्छसि । हनूमतो बालभावे कर्मैतत् कथितं मया ॥ ५०
श्रुत्वा गस्त्यस्य कथितं रामः सौमित्रिरेव च । विस्मयं परमं जम्मुर्वानरा राक्षसैः सह ॥ ५१

४ 1. न ह्येष इति । जानातीत्यनुकृष्यते । एप सुप्रीषो मारुतेर्बलं न जानाति । मारुतिश्वात्मनो बलं न जनासीत्यर्थः ॥ 2. धारयन् अप्रमेयः इति साधु । १. तेजसा इव भास्करः ति । २. सिद्धयति ति । ३. लोकक्षयेष्वेव ति. 1 ४. सोऽयमित्यादि पुरस्तादित्यन्तम् ष, नास्ति । ४५ ४८

५. अस्थानन्तरम् -गजो गवाक्षो गवय: सुदंष्ट्रो मैन्दः प्रभो ज्योतिमुखो नलश्च । एते च ऋक्षा: सह बनरेन्द्रस्त्वत्कारणादाम सुरैर्विसृष्टाः ॥ इति घ. पुना एतदनन्तरं मही गता देव- गणास्समस्ता महा बला रावणनाशहेतोः । ए॒तसु मत्तो विदितं तवास्तु लवंगमानां धरणीनिं चासः ॥ इति पथं अपि व प्रक्षिप्तं दृश्यते ।