पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वात्रिंशः सर्गः
मझ्यादनिलोऽप्यन्त्र वात्येष सुसमाहितः । इयं चापि सरिच्छेहा नर्मदा नर्मवर्धिनी ॥
नक्रमीन विहङ्गोर्मिः सभयेवाङ्गना स्थिता । तद्भवन्तः क्षनाः शस्त्रैर्नृपैरिन्द्रसमैर्युधि ।। ३१
चन्दनस्य रसेनेव रुधिरेण समुक्षिताः । ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् ॥ ३२
महापद्ममुखा मत्ता गङ्गामिव महागजाः । अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ||३३
अहमप्यद्य पुलिने शरदिन्दुसमप्रमे। पुष्पोपहारं शनकै: करिष्यामि कपर्दिनः ॥
रावणेनैवमुक्ताम्तु प्रहस्तशुकसारणा | समहोदरधूम्राक्षा नर्मदां विजगाहिरे ||
राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी | वामनाञ्जनपद्माद्यैर्गङ्गा इब महागजैः ॥
ततम्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः | उत्तीर्य पुष्पाण्याजहुर्धन्यर्थं रावणस्य तु || ३७
नर्मदापुलिने हृद्ये शुभ्राअसदृश | राक्षसैम्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ||
पुष्येष्पहृतेष्वेवं गवणो राक्षसेश्वर । अवतीर्णो नदी नातुं गङ्गामिव महागजः ॥
तत्र खात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् । नर्मदासलिलात्तस्मादुत्ततार स रावणः ॥
तत्र क्लिन्नाम्बरं त्यक्त्वा शुक्लबम्समावृतम् । रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ॥
'तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः । यत्र यत्र च यानि स्म रावणो राक्षसेश्वरः ॥
जाम्बूनदमयं लिङ्गं तत्र तत्र म्म नीयते । बालुकावेदिमध्ये तुतलिस्थाप्य रावणः ॥ ४३
अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ||
३९
४१
४२
ततः सनामातिहरं परं वरं चरप्रदं चन्द्रमयग्वभूषणम् |
समयित्वा स निशाचरो जगौ प्रमार्य हस्तान् प्रननत चाग्रतः ||
इत्य पे श्रोमामायणे वाल्मीकीये आदिकाव्ये चतुर्विशनिमहस्त्रिकायां सहितायाम
उत्तर कण्डे रावण नर्मदावगाही नाम एकनिशः सर्गः
३५
द्वात्रिंशः सर्गः
रावणग्रहणम


नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुण: । पुप्पोपहारं कुरुते तस्माद्देशाददूरतः ।।
अर्जुनो जयतां श्रेष्ठो माहिष्मत्या पति प्रभुः । क्रीडते सह नारीभिर्नर्मदातोयमाश्रिताः ॥ २
तासां मध्यगतो राजा रराज च तदार्जुनः । करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥
जिज्ञासुः स तु बांहूनां सहस्रम्योत्तमं बलम् | रुरोध नर्मदावेगं बाहुभिर्बहुर्भिर्वृतः ॥
कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् । कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ॥
समीननक्रमकरः सपुष्पकुशसंस्तरः । स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ॥
स वेगः कार्तवीर्येण संप्रेषित इवाम्भसः । पुष्पोपहारं सकलं रावणम्य जहार ह ॥
रावणोऽर्ष समाप्तं तमुत्सृज्य नियमं तदा । नर्मदां पश्यते कान्तां प्रतिकृलां यथा त्रिपाम् || ८


1. छन्दसं दैर्ध्यम् ।
125