पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६०
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

नश्यति स्म बलं तत्र हव्यं हुतमिवानले । सोऽपश्यत्तमरेन्द्रस्तु नश्यमानं महाबलम् ॥१७॥
महार्णवं समासाद्य वनापगशतं यथा । ततः शक्रधनुःप्रख्यं धनुविस्फारयन् स्वयम् ॥१८॥
आससाद नरेन्द्रस्तं रावणं क्रोधमूर्छितः । अनरण्येन तेऽमात्या मारीचशुकसारणाः ॥१९॥
प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव । ततो बाणशतान्यष्टौ पातयामास मूर्धनि ॥२०॥
तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः । तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतिं क्वचित्॥२१॥
वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि । ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा ॥२२॥
तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह । स राजा पतितो भूमौ बिहलाङ्गः प्रवेपितः॥२३॥
वज्रदग्ध इवारण्ये सालो निपतितो यथा । तं प्रहस्याब्रवीद्रक्ष इक्ष्वाकुं पृथिवीपतिम् ॥२४॥
किमिदानीं फलं प्रासं त्वया मां प्रतियुध्यता । त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप॥२५॥
शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम । तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् ॥२६ ॥
किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः । न ह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना ॥२७॥
कालेनैव विपन्नोऽहं हेतुभूतस्तु मे भवान् । किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये ॥२८॥
न ह्यहं विमुखो रक्षो युव्यमानस्त्वया हतः। इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस ॥२९॥
यदि दत्तं यदि हुतं यदि मे सुकृतं तपः । यदि गुप्ताः प्रजाः सम्यक् तदा सत्यं वचोऽस्तु मे ॥३०॥
उत्पत्स्यते कुले ह्मस्मिन्निक्ष्वाकूणां महात्मनाम् । रामो दाशरथिर्नाम यस्ते प्राणान् हरिष्यति ॥ ३१॥
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः। तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च स्वाच्च्युता ॥ ३२ ॥
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् । स्वर्गते च नृपे तस्मिन् राक्षसः सोऽपसर्पत ॥३३॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम

उत्तरकाण्डे अनरण्यशापो नाम एकोनविंशः सर्ग:


विंशः सर्गः

रावणसंधुक्षणम्

 
ततो वित्रासयन् मर्त्यान् पृथिव्यां राक्षसाधिपः । आससाद बने तस्मिन्नारदं मुनिपुङ्गवम् ॥१॥
तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः । अब्रवीत् कुशलं पृष्ट्वा हेतुमागमनस्य च ॥२ ॥
नारदस्तु महातेजा देवर्षिरमितप्रभः । अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥३॥
राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत। प्रीतोऽस्म्यभिजनोपेत विक्रमैरूर्जितैस्तव ॥४॥
विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः । त्वया सम विमर्दैश्च भृशं हि परितोषितः ॥५॥
किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि । तन्मे निगदतस्तात समाधिं श्रवणे कुरु ॥ ६॥