पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः 29 यावानिति । यस्य स्वधर्ममा ज्ञाने वा प्राधान्यं [तस्य ] परिमितादपि वेदभाषितात् कार्यं [सम्पद्यते] ॥ ४७ ॥ अतश्च - कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते संगोऽस्त्वकर्मणि ॥ ४८ ॥ कर्मणीति । कर्ममात्रे त्वं व्यावृतो भव, न तु कर्म फलेषु । ननु कर्मणि कृते 2 नान्तरीयकतयैव फल पापततीति १ मैवम् । तव हि यदि त्वं फलकामनाकालुष्यव्याप्तो भवसि, तदा कर्मणां फलं प्रति हेतुत्वम् । यत् अप्रार्थ्यमानं फलं उतत् ज्ञानं नानि- च्छोस्तत् इति । कर्माभावेन यः संगः स एव गाढग्रहरूपो मि ध्याज्ञानस्वरूपः इति त्याज्य एव ॥ ४८ ॥ कि तहि- योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनञ्जय । सिद्धथसिद्धयोः समो भूत्वा समत्वं योग उच्यते ॥ ४९ ॥ योगस्थ इति । योगे स्थित्वा कर्माणि कुरु । साम्यं च योगः ॥ ४९ ॥ यस्य सर्वे समारंभा निराशीर्वन्धनास्त्विह । त्यागे यस्य हुतं सर्व स त्यागी स च बुद्धिमान् ॥ ५० ॥ 1. N omits स्व- 2. B omits कृते; N substitutes जाते 3. S,B,N omit तत् 4. B,N इत्यत्याज्य एव 17