पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

12 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अहो बत महात्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥ अहो बतेति । वयमिति कौरवपाण्डवभेदभिन्नाः सर्व एवेत्यर्थः ॥ ४५ ॥ एवं सर्वेष्वविवेकिषु मम विवेकिनः किमुचितं ? उचितं बाव युद्धान्निवर्तनम्; एतत्तूचिततरमित्याह- - यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥ संजय उवाच - एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसं विनमानसः ॥ ४७ ॥ ॥ इति श्रीमद्भगवद्गीतायां प्रथमोऽध्यायः ॥ बनायं संग्रहश्लोकः- विद्याविद्योभयाघातसंघट्ट विवशीकृतः । युक्त्या द्वयमपि त्यक्त्वा विविवेको भवेन्मुतिः ॥ ॥ शिवम् ॥ इति श्रीमहामहेश्वराचार्यवर्य राजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थ संग्रहे प्रथमोऽध्यायः ॥ -*-