पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ४० ॥ अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥ ४१ ॥ संकरो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ ४२ ॥ दोपैरेतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥ उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ।। ४४ ।। निहत्येत्यादि । आततायिनां हनने पापसेव कर्तृ । अतो ऽयमर्थः- पापेन तावदेतेऽस्मच्छन्नवो हताः परतन्त्रीकृताः । तांश्च निहत्यास्मातपि पापमाश्रयेत्' । पापमन लोभादि- बथात् कुलक्षयादिदोषादर्शनम् । अत एव कुलादिधर्माणा- मुपक्षेपं करोति - स्वजनं हि कथमित्यादिना ॥ ३५-४४ ॥ - 11 विशेषफल बुद्धया हन्तव्यादिविशेषबुद्धया च हनने महा- पातकमित्येतदेव संक्षिप्याभिधातुं परितापातिशय सूचनायात्मगत- मेवार्जुनो वचनमाह- 1. Somits पापम् 2. S लोभवशात् 3. S दोषदर्शनम् 4. K कुलक्षयादि.. 5. B,N -क्षेपकम्