पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड दध्मौ महाशंखं भीमकर्मा वृकोदरः ।। १५ ।। अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥ काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १७ ॥ पाञ्चालश्च महेष्वासो द्रौपदेयाश्च पञ्च ये । सौभद्रश्च महाबाहुः शंखान् दध्मुः पृथक् पृथक् ॥ १८ ।। स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभव पृथिवीं चैव तुमुलो व्यनुनादयत् ॥ १९ ॥ अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः | हृषीकेशं तदा वाक्यमिदमाह महीपते ।। २० ।। अर्जुन उवाच 130 सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत । यावदेतान् निरीक्षेऽहं योद्धुकामानवस्थितान् । कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे ॥ २१ ॥ योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्टस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २२ ॥ 1. K व्यनुनादयन्