पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः अपर्याप्तं तदस्माकं बलं भीमाभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीष्माभिरक्षितम् ॥ १० ॥ अपर्याप्तमिति । भीमसेनाभिरक्षितं पाण्डवीयं बलम् अस्माकम पर्याप्तं जेतुमशक्यम्' । यदि वा2 अपर्याप्तम्, कियत्त- दस्मद्वलस्येत्येवार्थ. 3 । इँदं तु भीष्माभिरक्षितं बलमस्माकं सम्बन्धि एतेषां पाण्डवानां पर्याप्तम्, 4 जेतुं शक्यम्; यदि वा पर्याप्तं बहु, न समरे जय्यमेतैरिति ॥ १० ॥ अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ।। अयनेषु इति अयनानि वीथय ॥ ११ ॥ तस्य संजनयन् हर्ष कुरुवृद्धः पितामहः । सिंहनादं विनद्योचैः शंखं दध्मौ प्रतापवान् ।। १२ ।। ततः शंखाश्च मेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥ ततः वेर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शंखौ प्रदध्मतुः || १४ || 1. 2. 3. 4. 5. 7 S,B,N जेतुमसमर्थम् K अथवा K omits एवं S पाण्डवानां बलं पर्याप्तम्; B,N omit पर्याप्तम् S शक्तम्