सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशोऽध्यायः 291 श्लो. ६१-६२ (व्या) निर्वाहवाक्यम् - गीताशास्त्रा- र्थस्य निर्वहणात्मकं वाक्यम् । वासुदेवम् - वसुदेवस्य सूनुं गीताचार्यम् ॥ - श्लो. ६३ (व्या) वेदान्तावपि गुह्यमित्यादि । यद्यपि वेदान्तो जीवब्रह्मणोरैक्यरूपमद्वैतं रहस्यं तत्त्वं बोधयतीति गुह्य एव । तथापि सर्वस्यापि जगतो ब्रह्मप्रकृतिकत्वात् चेत- नावत्त्वं ब्रह्माभिन्नत्वमिति रहस्यतरपरमाद्वैततत्त्वप्रकाशकतया अस्य गीताशास्त्रस्य वेदान्ता पेक्षयापि गुह्यतरत्वमिति भावः ॥ श्लो. ६६ (व्या) नष्टो मोह इत्यर्जुनवाक्यानुसारेण मा शुच इति भगवद्वाक्यार्थमाह- किंकर्तव्यतामोहं मा गा इति ।। श्लो. ६७ (व्या) अस्य ज्ञानस्येत्यादि । इदं ज्ञानं गोप्यमानं सत् सिद्धिदमिति पर्यवसितार्थः । अवस्तुनि - अयथार्थे, निष्प्रयोजने वा ॥ श्लो. ६८-७१ (व्या) विधिरेवैषः नार्थवाद इति । अत्र च शाङ्करं भाष्यम्- '-- गीताशास्त्राध्ययनं स्तूयते । फलविधिरेव वा ' (XVIII, 70 ) इत्यादि । श्लो. ७५ (मू) एतद्गुह्यतमं महत् । अत्र 'एतदित्यादि- पदानां सामान्योपक्रमविवक्षया नपुंसकत्वम्; वाक्यस्य विशे- षाभिधायित्वात् योगशब्दः पुंस्येव बोद्धव्य' इति रामकण्ठः ।। श्लो. ७४-७८ (व्या) इत्युच्यत इत्यत्र इति वक्ति इति विवक्षितमिव । धात्वर्थकर्तुः उपसंहरन् इति कर्मकर्तृत्वाद्यनव-