पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

290 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता व्यक्तचापन्नम् - व्यक्तिमापन्नमिति द्वितीयासमासः । फलविभागितेति । विशेषेण भागिता विभागिता फलस्य विभागिता फलविभागितेति विग्रहार्थः । विशेषेण फलभागितेति यावत् । यद्वा फलभागितेत्येव विवक्षितम् || श्लो. ४४ (मू) पर्युत्थानमिति अस्वातन्त्र्यस्य विन- यस्य च द्योतकम् आसनपरित्यागं शक्त्या बोधयति, तत्पूर्विकां शुश्रूषां च लक्षणया ॥ श्लो. ५५ (मू) योऽहं यश्चास्मि तत्त्वत इति रामकण्ठीयः पाठः । अयमभिप्रायः - भक्तः भक्त्या साधनेन मां वासु- देवं परमात्मानम् अभिजानाति । अथवा भक्त्येति तृतीयार्थोऽ- भेदः अभिजानातीति धात्वर्थे ज्ञानेऽन्वेति । एवं च भक्त्या- त्मकं यत् मद्विषयकमभिज्ञानं तदाश्रय इत्यर्थ: । केन प्रकारेण स जानाति ? 'यः वासुदेव एव अहम् (भक्तवाची अस्म- च्छब्दः) मत्स्वरूपः' इति सोऽभिजानाति । अपि नामेदमस्य ज्ञानं तत्त्वज्ञानम् ? ओमित्याह यश्चास्मि तत्त्वतः इति । यः भक्तश्च एवास्मि अहम् तत्त्वतः परमार्थदृष्ट्या । तथा च 'वासुदेवोऽहम्' इति भक्तस्य यज्ज्ञानं तत् तत्त्वज्ञानमेवेति भावः । अभिजानातीत्यनेनायमेव अभिज्ञः, विज्ञः कृतीति सूचयति । अस्य च तत्त्वज्ञानस्य फलं दर्शयति ततो मामिति ॥ इदं च - - श्लो. ४१-६० (व्या) ब्राह्मणादीनामिति । कर्मणि स्वभावे चान्वेति । निरूपणस्येतिशेषषष्ठ्यर्थ कर्मत्वं धात्वर्थातिक्रमान्वयि ॥