पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशोऽध्यायः 277 इति त इति । तदेवेदं (तवेदं ?) ज्ञानम् उक्तं गुह्यात्, वेदान्तादपि, गुह्यं, परमाद्वैतप्रकाशनात् । एतच्चाशेषेण -1 विमृश्येति2 - तात्पर्यंमत्र विचार्यत्यर्थ: ।। ६३ ।। तच्च तात्पर्य यथावसरम् अस्माभिः शृङ्गग्राहियैव प्रकाशितं यद्यपि; तथापि स्फुटम् अशेषविमर्शनं प्रदर्श्यते । उपादेयतमं ह्यदः । नास्मिन् निरूप्यमाणे श्रूयमाणे वा मतिस्तृ- प्यति । 'गुह्यतमं यदव निश्चितं तज्ज्ञानमिदानीं शृणु' इत्याह- सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमतिस्ततो वक्ष्यामि ते हितम् ।। ६४ ।। मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥ सर्वेति । मन्मना इति । मन्मना भव इत्यादिना शास्त्रे ब्रह्मार्पणे एव सर्वथा प्राधान्यम् इति निश्चितम्; ब्रह्मार्पण- कारिण: शास्त्रमिदमर्थवत् इत्युक्तम् ।। ६४-६५ ।। आह च- सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ६६ ।। । सर्वधर्मानिति । यदिदं युद्धकरणे प्रासङ्गिकबन्धुवधादि, तस्य सर्वस्य 'अहं कर्त्ता' इत्यात्मधर्मतां परित्यज्य; तथा 1. S एतच्चाविशेषेण 2. B,N omit विमृश्येति and read संग्रहतात्पर्यम्