पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

276 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता विशुद्धया इत्यादि सर्वमेतत् व्याख्यातप्रायमिति न पुनरायस्यते । ।। ४१-६० ।। ईश्वरः सर्वभूतानां हृद्येष वसतेऽर्जुन । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ।। तमेव शरणं गच्छ सर्वभावेन भारत । मत्प्रसादात् परां सिद्धि स्थानं प्राप्स्यसि शाश्वतम् ॥ ६२॥ ईश्वर इति । तमेवेति । एष ईश्वरः परमात्मा अवश्यं शरणत्वेन ग्राह्यः । तत्र हि अधिष्ठातरि कर्तरि 2 बोद्धरि स्वात्ममये विमृष्टे 3, न कर्माणि स्थितिभाञ्जि भवन्ति । न हि निशिततरनखरकोटिविदारितसमदकरिकर टग लितमुक्ता- फलनिकरपरिकरप्रकाशितप्रतापमहसि सिंहकिशोरके गुहा- मधितिष्ठति चपलमनसो विद्रवणमावबलशालिनो 'हरिण- पोतकाः स्वैरं स्वव्यापारपरिशीलनापटुभावमवलंबन्ते इति । 'तमेव शरणं गच्च्छ' इत्युपक्रम्य 'मत्प्रसादात्' इति निर्वाहवाक्यमभिदधत् भगवान् परमात्मानम् ईश्वरं वासुदेवं च एकतया योजयति इति ।। ६१-६२ ।। इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु || ६३ ॥ 1. N – रारभ्यते 2. 3. 4. 5. K हिरण - - B omits कर्तरि B,N विस्पष्टे B omits -- परिकर --