पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

264 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अ[तोऽ] न्यान् हिंसादियोगिनोऽपि न त्यजेत् । शास्त्रैकशरण- कार्याकार्यविभागाः पण्डिता इति मन्यन्ते ॥ ३ ॥ निश्चयं शृणु त्यागो हि पुरुषव्याघ्र विविधः संप्रकीर्तितः ॥ ४ ॥ यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥ एतान्यपि च कर्माणि संगं त्यक्त्वा फलानि च कर्तव्यानीति से पार्थ निश्चितं मतमुत्तमम् ॥ ६॥ नियतस्य च संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७ ॥ (TS दुःखमित्येव यः कर्म कायक्लेशभयात् त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८ ॥ कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन । संगं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ ९ ॥ मे तत्र त्यागे भरतसत्तम । न द्वेष्टचकुशलं कर्म कुशले नानुषज्जति । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ।। १० ।। न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ११ ।। निश्चयमित्यादि अभिधीयते इत्यन्तम् । तत्र त्वयं निश्चयः- प्राग्लक्षितगुणस्वरूपवैचित्र्यात् त्यागस्यैव सत्त्वरज- स्तमोमय्या चित्तवृत्त्या क्रियमाणस्य तद्विशिष्टस्वभावाव-