पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

248 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता 'तद्विदां च स्मृतिशीले' इति । (गौतमधर्मसूत्रम् 1, 2 ) तच्च स्वत एव हिताहितोपदेशाय कार्याकार्यविवेचकम् । यस्य स्वभावत एव सत्त्वातिरेकसुकुमारं हृदयं, तेनाचरितं शास्त्रितमेव । अन्यस्तु रजस्तमः कलुषीकृतः शास्त्रोक्तमप्या- चरन् न आचरति, शास्त्रार्थस्य कात्स्येंन अननुष्ठानात् । शास्त्रं हि सत्त्ववतामेव फलवदिति शास्त्रमेवाह- यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च शीलं च स तीर्थफलमश्नुते ॥ इति (MB Aranya, Ch. 80, v. 30) नान्यः, असंयतत्वात् । तस्मात् शास्त्रार्थ: परित्यक्त- कामक्रोधमोहेषु सफल इति तात्पर्यम् अस्य अध्यायस्य । तदेवैतत् प्रताय्यते, स्पष्टार्थत्वाच्च न विव्रियते । किं तु केवलं पाठविप्रतिपत्तिनिवारणायैव लिख्यते ॥ २ ॥ सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रवः स एव सः ॥ ३॥ सत्त्वेति । सत्त्वानुरूपा इत्यत्र सत्त्वशब्द: स्वभाव- पर्यायः । अयं पुरुषः आत्मा श्रद्धया अन्यव्यापारोपरि वर्ति- न्या अवश्यं संबद्धः; स च तन्मय एव बोद्धव्यः ॥ ३ ॥ यजन्ते सात्विका देवान् यक्षरक्षांसि राजसाः । भूतप्रेतपिशाचांश्च यजन्ते तामसा जनाः ॥ ४ ॥ Somits fकंतु 1.