पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(Iसप्तदशोऽध्यायः अर्जुन उवाच- ये शास्त्रविधिमुत्सृज्य वर्तन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्वमाहो रजस्तमः ॥ १ ॥ ये शास्त्रेति । शास्त्रविधिमनालंब्य ये व्यवहारमाच- रन्ति [ श्रद्धया], तेषां का गतिरिति प्रश्नः ॥ १ ॥ तदवोत्तरं श्रद्धानुसारेण दीयते श्रीभगवता - श्रीभगवानुवाच- विविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्विकी राजसी चैव तामसी चेति ताः शृणु ॥ २ ॥ त्रिविधेति । तत्र चायमाशयः- शास्त्रं नाम किल पक्षपातारूषितबुद्धिपूर्वकत्वविहीनम्, 2 तथा परामर्शदाढर्च- रूपं बोधस्वातन्त्र्यादेव' दृढं परामृष्टं तथा फलादिस्वभावं, शुद्धविमर्शनिष्यन्दवाक्तत्व परमार्थपरब्रह्मस्वभावम्, स्वतन्त्र- प्रसरतया आन्तरात् बोधस्वभावात् बहिःप्रसरपर्यन्तं, "तच्च सुसूक्ष्मप्रणवादिरूपात्' व्यवहारप्रसिद्धप्रवादपरंपरापर्यन्तम् । यदाह - 1. B omits श्रीभगवता 2. B, N पक्षपाताबूक्ति- B, N, K-रूपबोध- 3. 4. 5. 6, 7. 8. B, N, K वृढपरामृष्ट (B, N श्य) तथा B, Nomit परमार्थ-; Somits the succeeding पर- S, K, omit awa; B Substitutes ar a प्रधानादिरूपव्यव- B, N B, N - प्रवाह -