पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्चदशोऽध्यायः यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥ श्रोत्रमित्यादि अचेतस इत्यन्तम् । मनः इत्यनेनान्त:- करणमुपलक्ष्यते । अत एव शरीरस्थितियोगात्तिष्ठन्तम्; शरीरान्तरग्रहणाय उत्क्रामन्तम्; विषयान्वा भुञ्जानं मूढा न पश्यन्ति, अप्रबुद्धत्त्वात् । प्रबुद्धास्तु सर्वत्रैव बोधरूपमेव अनुसंदधाना जानन्त्येव, इत्यलुप्तसमाधयः, तेषां यत्नपर- त्त्वात् । अकृतात्मनां तु यत्नोऽपि न फलाय, अपरिपक्वकषाय- त्त्वात् । न हि शरदि सलिलादिसामग्रीसंमर्देऽपि धान्यबीजानि उप्यमानानि फलसंपदे अलम् । अत एव सामग्री एव सा अस्य न भवति । अन्यदेव किल2 मधुमाससंभृतजलधरपटली- प्रेरितमम्भः; काचिदेव च सा भूः, यस्यां शिशिरविवशीकृतायां रविकरस्पर्शेनैव कान्तिः । एवम् अकृतात्मनां यत्नो न सकलाङ्ग परिपूर्णत्वमायाति । अत एव प्राप्याप्युपायं पारमे- श्वरदीक्षादि' ये तथाविध क्रोधमोहादिग्रन्थिसन्दर्भगर्भीकृतान्त- दृश:, 6 तेषु उपाय एव साकल्यं न भजतीति मन्तव्यम् । यदुक्तम्'– 1. S,B, N रूपमनुसंदधानाः 2. S omits किल 3. S,B,N fafaranfaant- 4. 5. B, N परिपूर्ण: कर्तुमायाति B परमेश्वर- B सन्दर्भीकृतान्तर्वृश: 229 6. 7. S, B, N तदुक्तम्