श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता ममेति । ब्रह्मण एवायमंश इति । अज्ञानधर्मतया परिपूर्णस्य असंवेदनात् चेतनताऽनिवृत्तेश्च अंशत्वमुपचरितम्; न पुनर्वस्तुतः अंशवत्तोपपद्यते । 'प्रदेशोऽपि ब्रह्मणः सार्व- रूप्यमनतिक्रान्तः' इति हि श्रुतिः । एषैव च औपचारिकता यथावसरं योजनीया इति न विप्रतिपत्तव्यम् ।। ७ ।। 228 शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ८ ॥ शरीरमिति । अवाप्नोति, गृह्णाति । उत्क्रामति त्यजति एतैः सह । यथा वायुः सर्वगतो विश्रान्तिधाम पार्थिवं प्राप्य ततो गन्धमानीय स्थानान्तरे तत्सहित एव संक्रामति, एवं जीवः पुर्यष्टकेन सह ॥ ८ ॥ एवं सृष्टौ संहारे च एतैः साहित्यमस्योक्त्वा स्थिता- वपि स्थानासनमननादिरूपायां' विषयग्रहणात्मिकायां + तत्स- हितस्यैवास्य व्यापार इति निश्चीयते- श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनचायं विषयानुपसेवते ॥ ९ ॥ तिष्ठन्तमुत्क्रामन्तं वा भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥ 1. 2. N श्रुतेः 3. N ममतादि- 4. B omits स्थितावपि -- त्मिकायाम् B,N omit न
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२८९
दिखावट