सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता क्षेत्रज्ञानन्यत्वेन क्षेत्रक्षेत्वज्ञसंयोगीति मूलस्य क्षेत्रात्मकक्षेत्रज्ञा- सन्य इत्यर्थोऽभिप्रेत इति प्रदर्शयितुमाचार्येण क्षेत्रज्ञातिरेकि न इति लिखितमित्यत सुधियः प्रमाणम् || 214 ... श्लो. ३४. अन मूले तथा व्याख्याने क्षेत्रक्षेत्रज्ञयोरन्तर मि त्यस्य तयोरन्तरमन्तरात्मानं चैतन्यमित्यर्थः । 'अन्तरमवका- शावधि-- - मध्येऽन्तरात्मनि' इत्यमरात् । न तु 'तयोर्भे- दम्' इति तदर्थः । तयोर्वास्तवभेदस्य तत्र तत्वाचार्येण निरस्त- त्वात् । अत एवानुपदमेव वक्ष्यति संग्रहपद्ये 'भेद: संमूढचेत- साम्' इति । उक्तं च पूर्वमपि क्षेत्रज्ञातिरेकि न संभवति' इति ॥ - (व्या) भूतप्रकृतेवेत्यादि । भूतप्रकृतेः सकाशात् मोचने इदमेव निमित्तं यत् तदीयपरिणामधर्मस्य अल्पत्वं परिमितकाल- मात्रभावित्वमिति तात्पर्यम् ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्यां त्रयोदशोऽध्यायः ॥