पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

213 व्योदशोऽध्यायः अब एतत्सर्वम् इत्यादिकं नानुमानप्रयोगप्रदर्शनपरम्, केवलान्वयिपक्षकत्वेन अनुपसंहारित्वापत्तेः । ईश्वराभ्युपगन्तृणां योगानां मतेऽपि हेतुघटक सत्यन्तस्य प्रयोजनादर्शनेन अन्ततो व्याप्यत्वासिद्धिदोषप्रसंगाच्च ।। श्लो. २४-२५ (व्या) आत्मतया उपास्यते इति । अन धात्वर्थ उपासना मानसज्ञान विशेषस्याविच्छिन्न प्रवाहरूपा । तद्घटकज्ञाने आत्मतयेति तृतीयार्थावच्छिन्न प्रकारताकत्वस्या- न्वयः । प्रागुक्तेन सांख्य नये नेति । 'सांख्ययोगौ पृथग्बालाः प्रवदन्ति' इति, 'एकं सांख्यं च योगं च' इत्यादिना च पूर्वं पञ्चमाध्याये प्रदर्शितरीत्या सांख्यात्मकयोगेनेत्यर्थः । एवमासीत इति । एव- मुपासीतेत्यर्थः ॥ श्लो. २६ (व्या) क्षेत्रज्ञातिरेकि न संभवति इति । इदं चाचार्य वचनं क्षेत्रक्षेत्रज्ञसंयोगात् इति समुपलभ्यमानेन मूलेन रामकण्ठेनाप्यङ्गीकृतेन विगीतमिव | अपि नामेदमाचार्यवचन- मेवं ज्ञापयति यत् आचार्याभिमतः पाठः प्रायशः 'क्षेत्रक्षत्रज्ञ- संयोगि' इत्येवेति ? क्षेत्रक्षेत्रज्ञाभ्यां सम्यक् योग: संबन्ध: अस्येति तदर्थः । योगस्य सम्यक्त्वं च तादात्म्यमेव । अत एव अतिरेकि न भवति इत्याह । क्षेत्रज्ञातिरेकि इत्यस्य क्षेत्रं च ज्ञश्च ताभ्यामतिरेकि इति विग्रहः । एवं च मूलेनैकवाक्यता । अथवा क्षेत्रक्षेत्रज्ञा तिरे कि इत्येव विवक्षितमाचार्येण । वस्तुतस्तु अस्मि- न्नेवाध्याये पूर्वं, तथा अन्यत्र च तत्र तत्र दर्शित दिशा सर्वस्यापि चराचरात्मकस्य प्रपञ्चस्य ब्रह्मानन्यत्वात्, क्षेत्रस्यापि वस्तुतः