पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Tel द्वादशोऽध्यायः 199 अथेति । यदि च भगवत्कर्म कर्तुं न शक्तोऽसि, अज्ञ- त्वात् शास्त्रोक्तक्रमावेदनात्; तत् सर्वं मयि संन्यसे: 2 आत्मनि- वेदनद्वारेणेत्याशयः । अमुमेवाशयमाश्रित्य लघुप्रक्रियायां मये- वोक्तम्- ऊनाधिकमविज्ञातं पौर्वापर्यविवर्जितम् । यच्चावधानरहितं बुद्धेविस्खलितं च यत् ॥ तत्सर्वं मम सर्वेश भक्तस्यार्तस्य दुर्मतेः । क्षन्तव्यं कृपया शम्भो यतस्त्वं करुणापरः ॥ अनेन स्तोत्नयोगेन तवात्मानं निवेदये । पुननिष्कारणमहं दुःखानां नैमि पात्रताम् ॥ इति पारमेश्वरेषु हि सिद्धान्तशास्त्रेषु आत्मनिवेदने अयमेवाभिप्रायः ॥ ११ ॥ तदिदं तात्पर्य मुपसंह्रियते - श्रेयो हि ज्ञानमभ्यासात् ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरा ॥ १२ ॥ श्रेय इति । ज्ञानम् आवेशात्म अभ्यासाच्छ्रेयः, अभ्यास- स्य तत्फलत्वात् । तस्मादेवावेशात् ध्यानं भगवन्मयत्वं विधि- ष्यते विशेषत्वं याति, अभिमतप्राप्त्या । सति ध्याने' भगवन्म- 1. N न शक्नोषि 2. N संन्यस्ये: 3. S निवेदयेत् 4. S, B, N आवेशात्मा - - श्रेयान् 5. S सति ध्यानेन; B, N प्राप्त्यासत्तिध्यानेन