198 18W श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता यदा तु विगतेन्धनः स्ववशवर्तिती संश्रय- न्न कृत्रिम समुल्लसत्पुलक कम्पबाष्पानुगः । शरीरनिरपेक्षतां स्फुटसुपाददावश्चितः स्वयं झगिति बुध्यते युगपदेव बोधानलः । तदैव तव देवि तद्वपुरुपाश्रयैर्वजित 1 महेशमवबुध्यते विवशपाशसंक्षोभकम् ॥ इत्यादि । ६-८ ।। अथावेशयितुं चित्तं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय ॥ ९ ॥ अथेति । तीव्रतरभगवच्छक्तिपातं चिरतरप्रसादितगुरु- चरणानुग्रहं च विना दुर्लभ आवेश इत्यभ्यासः ।। ९ ।। अभ्यासेप्यसमर्थः सन् मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ॥ १० ॥ अभ्यासेऽपीति । अभ्यासोऽपि न शक्यते विध्वाद्य- भिभवात्, अतस्तन्नाशाय कर्म पूजाजपस्वाध्यायहोमादीन् कुरु ।। १० ।। अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११ ॥ 1. B–चपुरुप | शयैर्वजितं; N-वपुरुषाशयैर्वजितं (श्रितैर्वजितं) 2. N adds समाधातुं आवेशयितुं obviously accepting the reading अथ चित्तं समाधातुं as found in the Vulgate 3. B शक्तिपातचिरतर-
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२५९
दिखावट