142 श्रीमद्भगवद्गीता गौतार्थसंग्रहोपेता ननु क एवं जानाति यत् सर्वभुवनेभ्यः पुनरावृत्तिः । ब्रह्मा- दय एव हि तावत् चिरतरस्थायिनः श्रूयन्ते । ते एव कथं पुव- रावत्तिनः ? पुनरावत्तित्वे हि तेऽपि स्युः प्रभवाप्ययधर्माणः इत्या- [शङ्कया]ह- सहस्रयुगपर्यन्तमहर्ये ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ १७ ॥ अव्यक्ताद्वयक्तयः सर्वाः प्रभवन्त्यहरागमे । राज्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥ भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । राज्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥ सहस्रेत्यादि आगम इत्यन्तम् | ये खलु दीर्घदृश्वाचः, ते ब्रह्मणोऽपि रात्रि दिवं [च] पश्यन्ति प्रलयोदयतया । तथा च अहर- हस्त एव विबुध्य निजां निजामेव चेष्टामनुरुध्यन्ते प्रतिरात्रि च तेषामेव निवृत्तपरिस्पन्दाना शक्तिमातृत्वेनावस्थानम् । एवं सृष्टौ प्रलये च पुनः पुनर्भाव: 6 वान्येऽन्ये उपसृज्यन्ते, अपि तु त एव जीवाः । कालकृतस्तु चिरक्षिप्रप्रत्ययात्मा विशेषः । एष च परिच्छेदः प्रजापतीनामप्यस्ति । ततश्च तेऽपि प्रभवाप्यय- धर्माण एवेति स्थितम् ।। १७-१९ ।। 1. S, B, N अत एव तावत् 2. N अदीर्घ- 3. B–मवरुध्यन्ते 4. 5. S- परिस्पन्दिनाम् N - त्वेनोपस्थानम् 6. K (n) – र्भव:
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२०३
दिखावट