पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः 141 नीय इत्यर्थः; यत्प्रागुक्तम्- 'तीर्थे श्वपचगृहे वा' इत्यादि || १२-१४ ॥ ननु 'मद्भावं याति' इत्युक्तम् । वर्तिक प्राप्तेऽपि पुनरा- वृत्तिरस्ति इत्याशंक्याह- मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ।। १५ ।। मामुपेत्येति । अन्यतस्तु सर्वत एव पुनरावृत्तिरस्ति इति समवन्तरश्लोकेत प्रतिपादयिष्यते । मां तु प्राप्य व पुनर्योगिनः जन्मादिवासमाप्नुवन्ति ॥ १५ ॥ आ ब्रह्म भुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥ आ ब्रह्मेति । ब्रह्मलोकप्राप्तानामपि पुनरावृत्ति रस्ति इति सर्वेव्यख्यातम् । एतदभ्युपगमे च 'तदुपरितनलोकगति- र्मुक्तिः' इत्यभिहितं स्यात् । तच्च व हृदयङ्गममिति संशयमहा- मोह कलुषीकृतान्तर्दृशामस्माकं प्रतिभाति । इयमागमाधिगता व्याख्यावर्तिः 5- आब्रह्म यावत् ब्रह्मपदं प्राप्तं तावत् यस्मात् कस्माच्चित् तिर्यगूर्वादधस्ताद् भुवनात् पुनरावर्तन्ते, चक्रवत् स्थावान्तरमविरतं भ्राम्यन्तो विपरिवर्तन्ते इति ॥ १६ ॥ 1. S,B,N तत्र किम् 2. B omits अन्यतस्तु इति 3. B.N प्राप्नुवन्ति; B, N, K (n) add न स पुनरावर्तते इति श्रुतेः । यं प्राप्य न निवर्तन्ते इत्यग्रेsपि । S - काप्तानामपि 4. 5. S व्याख्यावृत्तिः