पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

112 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपैता तत्वेत्यादि परां गतिमित्यन्तम् । संसिद्धौ मोक्षात्मिका- याम् । अवशः, परतन्त्र एव किल तेन पूर्वाभ्यासेन बलादेव योगाभ्यासं प्रति नीयते । न चैतत् सामान्यम् । योगजिज्ञासा- मात्रेणैव हि शब्दब्रह्मातिवृत्तिः, मन्त्रस्वाध्यायादिरूपं च शब्द- ब्रह्म अतिवर्तते, न स्वीकुरुते । ततः जिज्ञासानन्तरम् यत्नवान् अभ्यासक्रमेण देहान्ते वासुदेवत्वं प्राप्नोति । न चासौ तेनेव देहेन सिद्ध इति मन्त- व्यम् । अपि तु बहूनि जन्मानि तेन तदभ्यस्तमिति मन्तव्यम् । अत एव यस्य अनन्यव्यापारतया भगद्व्यापारानुरागित्वं स योगभ्रष्ट इति निश्चेयम् ।। ४५ - ४७ ।। योगस्य प्राधान्यमाह - तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४८ ॥ तपस्विभ्य इति । तपस्विभ्यः अधिकत्वं पूर्वमेव सूचि- तम् । ज्ञानिभ्यः अधिकत्वं, ज्ञानस्य योगफलत्वात् । कमिभ्य उत्कर्षः स एव कर्माणि कर्तुं वेत्ति ॥ ४८ ।। न च तिरीश्वरं कष्टयोगमा संसिद्धिदं इति उच्यते. योगिनामपि सर्वेषां मद्गते नान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ ४९ ॥ ॥ इति श्रीमद्भगवद्गीतायां षष्ठोऽध्यायः ॥ 1. B, N fasia: -