पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थं संग्रहोपेता - श्लो. २५ (व्या) सर्वास्ववस्थासु ब्रह्मसत्ता पारमार्थिकी इत्यादि । अनेन सर्वतो ब्रह्म निर्वागं वर्तते इति मूलं व्याख्यात- मिव । तथा हि - सर्वतः, सर्वदा इत्यर्थः; सार्वविभक्तिकस्त- सिः । वर्तते इति धात्वर्थो वर्तनं सत्ता, सा ब्रह्मेति प्रथमान्त- पदार्थब्रह्मकर्तृका । सत्ताया ब्रह्मकर्तृकत्वं च ब्रह्मात्मकत्वमेव । निर्वाणमिति क्रियाविशेषणस्यार्थः सत्तायमभेदेनान्वेति; निर्वाण- त्वं च पारमार्थिकत्वम् । कथम् ? वा गतिगन्धनयोरित्यदादे- र्धातोर्भावे क्तप्रत्यये निष्पन्नस्य वातशब्दस्य गत्यर्थकतया, निर्गतं वातात् - 'निर्वाणोडवाते (PA, VIII, ii, 50) इति तकारस्य णत्वे- इति व्युत्पत्त्या निष्पन्नस्य निर्वाणशब्दस्य सर्वगतिशून्या- - - 98 र्थकत्वात् । एवं च सर्वगमनागमनशून्या अनागमापायिनी पार- माथिकापरपर्याया ब्रह्मात्मिका सत्ता इत्यर्थलाभः इति ॥ - वर्तते इति लट्प्रयोगस्वारस्यं दर्शयति न निरोधकालमपे- क्षते इति । चित्तवृत्तिनिरोधकालं नापेक्षते इत्यर्थः । अष्टांग- योगिनो यदा चित्तवृत्तिनिरोधः तदा तदैव द्रष्टु: स्वरूपे- ऽवस्थानम् । यतेस्तु वर्तते सर्वस्ववस्थासु ब्रह्मसत्ता इति विशेषः । अथ वा विरोधो नाथमाह । स च शरीरस्येत्यादिः । तथा च शरीरनाशकालं मरणकालं नापेक्षते इत्यर्थः । तार्कि- कादिमते 'दुःख जन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तद- नन्तरापायादपवर्ग.' (न्या. सू. II, i, 2) इति रीत्या दुःखात्म- कशरीरापायकालमपेक्षतेऽपवर्ग: । यतिस्तु अव ब्रह्म समश्नुते इति हृदयम् ||