पश्चमोऽध्यायः 97 श्लो. १८ (व्या) समं पश्यन्ति इति न तु व्यवहरन्ति इति । अनेन मूले समदर्शिन इत्यत्न सममिति दर्शनक्रियाविशेषणमिति सूचितम् ॥ श्लो. २१ (व्या) एवं भावयतीति । तथा च मूले आद्य- पादत्रयं बुधस्य ज्ञानाकारामिलापकमिति भावः । तथाविधा अपीति । 'अतथाविधा अपि' इत्येव विवक्षितमिव । अदुःख. कारणरूपा अपीति तदर्थः । अथ वा यदि स्थितस्य गतिः कल्पनीया तदा - 'तथाविधत्वं च संस्पर्शजन्यत्वम्; तदेव दुःख कारणत्वेन निर्दिष्टम् । अपि, अपि चेत्यर्थः' इत्येवं रीत्या कथंचित् नेयम् || श्लो. २२ (व्या) न चैतद्दुःशक मित्यादि । अव पङ्कङ्क्षय- स्त्रुटिता इव । न हि क्षणमात साध्योऽतिसुशकः पन्था उपदिश्यते भगवता । अतोऽत्वेदं विवक्षितमिव 'न चेतत् सुशकम् ; दुःश- कोऽयं कामक्रोधादिजो वेगः शरीरान्तकालं यावत्- - व क्षण- मात्रम् सह्यते यदि, तदा आत्यन्तिकी सुखप्राप्तिः ।' इति । अन च संदर्भ - 'न क्षणमात्रम्, किन्तु प्राक् शरीरविमोचनात्, आ देहपातात्' इति श्रीभास्कराचार्यव्याख्यानम्; तथा- 'अयं च - कष्टतमो दोषः दुनिवारश्चेति तत्प- रिहारे यत्नाधिक्यं कर्तव्यमित्याह आ मरणात् .... इति श्रीशङ्कराचार्यव्याख्यानं चानुसंधेयम् ।। पीता- 7
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१५८
दिखावट