पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

72 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अत एव- यस्य सर्वे समारंभा: कामसंकल्पवर्जिताः । ज्ञानाशिदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥ यस्येति । कामेषु काम्यमानेषु फलेषु संकल्पं विहाय क्रियमाणावि कथितकथयिष्यमाणस्वरूपे ज्ञानाग्नौ अनुप्रवि(व)- श्य दह्यन्ते ॥ १९ ॥ त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किंचित् करोति सः ॥ २० ॥ [Contd. from p-71] पश्येत्; अकर्मणि च परैः प्रमातृभिः कृते कर्मणि पूजनादौ [स्वकीयं] कर्म क्रियां 'एते कर्तारः सर्वेऽहमेव' इति दृष्टया- 'पूजकैर विभेदेन सदा पूजेति पूजनम् इति सिद्धभाषाप्रामाण्यात | स एव मनुष्येषु सामान्यजनेषु मध्ये बुद्धिमान्, देहेन्द्रियादिष्वपि कर्तृत्वदर्शनात् आत्मनि निष्क्रियत्वदर्शनाच्च । स एव कृत्स्न- कर्मकृत् कर्तन्तरेषु स्वरूपदृष्ट चध्यवसायात् । 'पूजनानास्ति मे तुष्टि : नास्ति खेदो ह्यपूजनात् । पूजकेर विभेदेन सदा पूजेति पूजनम् ॥' इति सोमानन्दपादाः । मनु परकृते कर्मणि कथं स्वकीयकर्मदर्शनम् ? न ह्यन्यकृतभोजनेन स्वकृत भोजनायुपगमः | तस्मात् अकर्मणि च कर्म यः पश्येत् इति कथमिति चेत् ? ज्ञानिन एवंविधानुसन्धानात् इति ब्रूमः । यतः निष्पन्न निष्कम्पविज्ञानशालिनः प्रमे- यान्तरप्रमानन्तरजाते बहुविधमनुसन्धानमस्ति । यथा 'य एवं घटावीन्वेद्मि स एव पटादीन् । एवं चैत्रमैनादिप्रमावन्तरविषयमनुसन्धानं ज्ञेयम् । अत एव • वसिष्ठपावैरपि 'पूजकै रविभेदः' इत्युपदिष्टम् । तस्मात् सुक्तम् अकर्मणि चेति ॥ The whole passage seems to be an elaboration by way of elucidating what Ag. has already stated under IV, 18