पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः 71 तथाहि हिस्रप्राणिवधे प्रजोपतापाभावः । अकरणेऽपि च शुभा- शुभं कर्म अस्ति, वाङ्मनसकृतावां कर्मणामवश्यं भावात्, तेषां ज्ञानमन्तरेण दुष्परिहरत्वात् । अतः कुशलैरपि गहनत्वात् कर्म व ज्ञायते 'अनेन' शुभकर्मणा शुभमस्माकं भविष्यति, अनेन च कर्मणामनारंभेण मोक्षो न (नो१) भविष्यति' इति । तस्माद्वक्ष्य- माणो विज्ञानवह्निरेव अवश्यं पकलशुभाशुभकर्मेन्धनप्लोषसमर्थः शरणत्वेनान्वेष्य इति भगवतोऽभिप्रायः ॥ १६-१७ ।। तमेव उद्बोधयितुमाह - कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स चोक्तः कृत्स्नकर्मकृत् ॥ १८ ।। कर्मणि इति । आत्मीयेषु कर्मसु यः अकर्तृत्वं पश्यति प्रशान्ततया; अकर्मसु च परकृतेषु आत्मकृतत्वं जानाति परि पूर्णोदितरूपत्वेन; स एव सर्वस्य मध्ये बुद्धिमान् कात्स्येंन साकल्येनासौ कर्म करोति अतोऽस्य केन कर्मणा फलं दीयताम इति उदितदशायाम् । प्रशान्तत्वे तु कृत्स्नानि कर्माणि कृन्तन छिनत्ति । अतः सर्वमेव कर्म करोति, न किञ्चिद्वा करोति इत्युपनिषत् ॥ १८ ॥4 1. B,N यथा instead of तथा हि 2. S - श्यभावित्वात् ; K (n) - वित्वादिति S तेन 3. 4. After this, N adds the following long pass- age which is also found in S in the margin only. with slight variations:- सर्वस्मिन् कर्मणि बेहेन्द्रियक्रियायां अकर्म स्वात्मनि निष्क्रियत्वं 'श्रोवादीनि शब्दादिषु वर्तन्ते वागादीनि वचनादानादौ, मम किमायातम् ?' इत्येवंलक्षणं यः [Contd. in p-72]