पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता श्रीभगवानुवाच - बहूनि मे व्यतीतानि जन्मानि तव चार्जुन | तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥ ५ ॥ अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥ ६ ॥ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मांशं सृजाम्यहम् ॥ ७ ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ ८ ॥ जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥ बहूनि इत्यादि अर्जुन इत्यन्तम् । श्रीभगवान् किस पूर्णषाड्गुण्यत्वात् शरीरसंपर्कमावरहितोऽपि स्थितिकारित्वात् कारुणिकतया आत्मांशं सृजति । आत्मा पूर्णषाड्गुण्यः, अंश: उपकारकत्वेन 'अप्रधानभूतो यत्र तत् आत्मांशं शरीरं गृह्णाति इत्यर्थ: । अत एवास्य जन्म दिव्यम्, यत आत्ममायया योग- प्रज्ञया 2 स्वस्वातन्त्र्यशक्त्या आरब्धम्, न कर्मभिः । कर्मापि दिव्यम् फलदानासमर्थत्वात् । यश्चैवमेतत्तत्त्वं वेत्ति, आत्म- न्यप्येवमेव मन्यते सोऽवश्यं भगवद्वासुदेवतत्त्वं जानाति १५९ ॥ वीतरागभयक्रोधा मन्मया मद्व्यपाश्रयाः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १० ॥ 1. B,N omit अ 2. B, omits स्व