पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः श्रीभगवानुवाच - एवं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ १ ॥ एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनैव महता योगो नष्टः परन्तप ॥ २ ॥ स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥ एवमित्यादि उत्तमम् इत्यन्तम् । एतच्च गुरुपरम्परा- प्राप्तमपि अद्यत्वे नष्टमित्यनेन 2 भगवान् अस्य ज्ञानस्य दुर्ल- भतां गौरवं च प्रदर्शयति । भक्तोऽसि मे सखा चेति । त्वं भक्तः मत्परमः सखा च । चशब्देन अन्वाचय उच्यते । तेन यथा भिक्षाटने भिक्षायां प्राधान्यं गवानयने त्वप्राधान्यम् एवं भक्तिरव गुरुं प्रति प्रधानं न सखित्वमपीति तात्पर्यार्थः ॥ १-३॥ अर्जुन उवाच- अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेव विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥ अपरमिति | अर्जुनो भगवत्स्वरूपं जानन्नपि लोके स्फुटी- कर्तुं पृच्छति ॥ ४ ॥ 1. S-परम्परायातमपि; K-परम्परया प्राप्तमपि 2. S,N अद्यत्वे तनष्ट-