पृष्ठम्:श्रीमद्भगवद्गीता.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
[अ० २०३९]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता--


णनिमित्तम् । अतः फलकामनामन्तरेण कुर्वन्नुभयविधमपि पापं न प्राप्नोतीति प्रागेव व्याख्यातोऽभिप्रायः । " हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् " इति त्वानुषङ्गिकफलकथनमिति न दोषः । तथा चाऽऽपस्तम्बः स्मरति-" तद्यथाऽऽम्रे फलार्थे निमिते छायागन्धावनुत्पद्यते एवं धर्मं चर्यमाणमर्था अनुत्पद्यन्ते नो चेदनूत्पद्यन्ते न धर्महानिर्भवति " इति । अतः युद्धशास्त्रस्यार्थशास्त्रत्वाभावात् “पापमेवाऽऽश्रयेस्मान्” इत्यादि निराकृतं भवति ॥ ३८ ॥

 श्री० टी०-यद्प्युक्तं “पापमेवाऽऽश्रयेदस्मान् ” इति तत्राऽऽह-सुखदुःखे इति । सुखदुःखे समे कृत्वा तथा तयोः कारणभूतौ लाभालाभावपि तयोरपि कारणभूतौ जयाजयावापे समौ कृत्वा । एतेषां समत्वे कारणं हर्षविषादराहित्यम् । युज्यस्व संनद्धो भव । सुखाद्यभिलाषं हित्वा स्वधर्मबुद्ध्या युध्यमानः पापं न प्राप्म्यसीत्यर्थः ॥ ३८ ॥

 मे० टी०---ननु भवतु स्वधर्मबुध्द्या युध्यमानस्य पापाभावः, तथाऽपि न मां प्रति युद्धकर्तव्यतोपदेशस्तवोचितः, “य एनं वेत्ति हन्तारम्” इत्यादिना कथं स पुरुषः पार्थ के घातयति हन्ति कम्” इत्यन्तेन विदुषः सर्वकर्मप्रतिक्षेपात् । नह्यकर्त्रभोक्तृशुद्धस्वरूपोऽहमस्मि युद्धं कृत्वा तत्फलं भोक्ष्य इति च ज्ञानं संभवति विरोधात् । क्षानकर्मणोः समुच्चयासंभवात्प्रकाशतमसोरिव । अयं चार्जुनाभिप्रायो ज्यायसी चेदि त्यत्र व्यक्तो भविष्यति । तस्मादेकमेव मां प्रति ज्ञानस्य कर्मणयोपदेशो नोपपद्यत इति चेत्, न, विद्वदविद्दवस्थाभेदेन ज्ञानकर्मोपदेशोपपत्तेरित्याह भगवान्---

एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ॥
बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि॥ ३९ ॥

 एषा न त्वेवाहमित्याद्येकविंशति-श्लोकैस्ते तुभ्यमभिहिता सांख्ये सम्यक्स्यायते सर्वोपाधिशून्यतया प्रतिपाद्यते परमात्मतत्त्वमनयेति संख्योपनिषत्तथैव तात्पर्यपरिसमाप्त्या प्रतिपाद्यते यः स सांख्य औपनिषदः पुरुष इत्यर्थः । तस्मिन्बुद्धिस्तन्मात्रविषयं ज्ञानं सर्वानर्थनिवृत्तिकारणं त्वां प्रति मयोक्तं नैतादृशज्ञानवतः क्वचिदपि कर्मोच्यते, तस्य कार्यं न विद्यत इति वक्ष्यमाणत्वात् । यदि पुनरेवं मयोक्तेऽपि तवैपा बुद्धिर्नोदेति चित्तदोषात् , तदा तदपनयेनाऽऽत्मतत्त्वसाक्षात्काराय कर्मयोग एवं त्वयाऽनुष्ठेयः । तस्मिन्योगे कर्मयोग तु करणीयामिमां “सुखदुःखे समे कृत्वा' इत्यत्रोक्तां फलाभिसंधियागलक्षणां वुद्धिं विस्तरेण मया वक्ष्यमाणां शृणु । तुशब्दः पूर्वबुद्धेर्यो'गविषयत्वव्यतिरेकसूचनार्थः । तथा च शुद्धान्तःकरणं प्रति ज्ञानोपदेशोऽशुद्धान्तः- करणं प्रति कर्मोपदेश इति कुतः समुच्चयशङ्कया विरोधावकाश इत्यभिप्रायः । योग-