पृष्ठम्:श्रीमद्भगवद्गीता.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० २ क्ष्लो०४० ]
७१
श्रीमद्भगवद्गीता ।


विषयां बुद्धिं फलकथनेन स्तौति-यया व्यवसायात्मिकतया बुद्या कर्मसु युक्तस्त्वं कर्मेनिमित्तं बन्धमाशयाशुद्धिलक्षणं ज्ञानपतिबन्धं प्रकर्षेण पुनः प्रतिबन्धानुत्पत्तिरूपेण हास्यसि त्यक्ष्यसि । अयं भावः---कर्मनिमित्तो ज्ञानप्रतिबन्धः कर्मणैव धर्माख्येना(णा)पनेतुं शक्यते “धर्मेण पापमपनुदति" इति श्रुतेः । श्रवणादिलक्षणो विचारस्तु कर्मात्मकप्रतिबन्धरहितस्यासंभावनादिप्रतिबन्धं दृष्टद्वारेणापनयतीति न कर्मबन्धनिराकरणायोपदेष्टुं शक्यते । अतोऽत्यन्तमलिनान्तःकरणत्वाद्बहिरङ्गसाधनं कर्मैव त्वयाऽनुष्ठेयं, नाधुना श्रवणादियोग्यताऽपि तव जाता, दूरे तु ज्ञानयोग्यतेति । तथा च वक्ष्यति--- कर्मण्येवाधिकारस्ते !' इति । एतेन सांख्यबुद्धेरन्तरङ्गसाधनं श्रवणादि विहाय बहिरङ्गसाधनं कर्मैव भगवता किमित्यर्जुनायोपदिश्यत इति निरस्तम् । कर्मबन्धं संसारमीश्वरप्रसादनिमित्तज्ञानप्राप्त्या प्रहास्यसीति प्राचां व्याख्याने त्वध्याहारदोषः कर्मपदवैयर्थ्यं च परिहर्तव्यम् ॥ ३९ ॥

 श्री०टी–उपदिष्टं ज्ञानयोगमुपसंहरंस्तत्साधनं कर्मयोगं प्रस्तौति-एषा त इति । सम्यक्ख्यायते प्रकाश्यते वस्तुतत्वमनयेति संख्या सम्यग्ज्ञानं तस्मिन्प्रकाशमानमात्मतत्त्वं सौख्यं तस्मिन्करणीया बुद्धिरेषा तवाभिहिता । एवमभिहितायामपि सांख्यबुद्धौ तव चेदात्मतत्त्वमपरोक्षं न [१]भवति तर्ह्यन्तःकरणशुद्धिद्वाराऽऽत्मतत्त्वापरोक्षार्थं कर्मयोगे त्विमां बुद्धिं शृणु । यया बुद्ध्या युक्तः परमेश्वरार्पितकर्मयोगेन(ण) शुद्धान्तःकरणः संस्तत्प्रसादप्राप्तापरोक्षज्ञानेन कर्मात्मकं बन्धं प्रकर्षेण हास्यसि त्यक्ष्यसि ॥ ३९ ॥

 म०टी०-ननु “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन " इति श्रुत्या विविदिषां ज्ञानं चोद्दिश्य संयोगपृथक्त्वन्यायेन सर्वकर्मणां विनियोगात्तत्र चान्तःकरणशुद्धेर्द्वारत्वान्मां प्रति कर्मानुष्ठानं विधीयते । तत्र तद्यथेह क[२]र्मजितो लोकः क्षीयत एवमेवामुत्र पुण्य[३]जितो लोकः क्षीयते " इति श्रुतिबोधितस्य फलनाशस्य संभवाज्ज्ञानं विविदिषां चोद्दिश्य क्रियमाणस्य यज्ञादेः काम्यस्वात्सर्वाङ्गोपसंहारेणानुष्ठेयस्य यत्किंचिदङ्गासंपत्तावपि वै[४]गुण्यापत्तेर्यक्षेनेत्यादिवाक्य- विहितानां च सर्वेषां कर्मणामेन पुरुषायुषपर्यवसानेऽपि कर्तुमशक्यत्वात्कुतः कर्मबन्धं प्रहास्यसीतिफलं प्रत्याशेत्यत आह भगवान्-

नेहाभिकमनाशोऽस्ति प्रत्यवायो न विद्यते ॥
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥

 अभिक्रम्यते कर्मणा प्रारभ्यते यत्फलं सोऽभिक्रमस्तस्य नाशस्तद्यथेहेत्यादिना प्रति-


  1. के. ग. च. छ. ज. ञ. संभवति ।
  2. क. ख. घ. झ. ण्यचित ।
  3. क. ख. घ. झ. "थचिता ।
  4. क. ख. ग. ङ. छ. ज. झ. ञ. 'गण्यापप' ।