पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
[अ०२श्लो०२१]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता--


 श्री०टी०- न हन्यत इत्येतदेव षड्भावविकारशून्यत्वेन द्रढयति नेति । न जायत इति जन्मप्रतिषेधः । न म्रियते चेति विनाशप्रतिषेधः । वाशब्दो चार्थे । न चायं भूत्वोत्पद्य भविता भवति अस्तित्वं भजते । किं तु प्रागेव स्वतः सद्रूप इति जन्मानन्तरास्तित्वलक्षणद्वितीयविकारप्रतिषेधः । तत्र हेतुः---यस्मादजः । यो हि जायते स जन्मानन्तरमस्तित्वं भजते न तु यः स्वयमेवास्ति स भूयोऽप्यन्यदस्तित्वं भजत इत्यर्थः । नित्यः सर्वदैकरूप इति वृद्धिप्रतिषेधः । शाश्वतः शश्वद्भव इत्यपक्षयप्रतिषेधः । पुराण इति विपरिणामप्रतिषेधः । पुराऽपि नव एव न तु परिणामतो रूपान्तरं प्राप्य नवो भवतीत्यर्थः । यद्वा न भवितेत्यस्यानुषङ्गं कृत्वा भूयोऽधिकं यथा भवति तथा न भवितेति वृद्धिप्रतिषेधः । अजो नित्य इति चोभयं वृद्धयभावे हेतुरित्यपौनरुक्त्यम् । तदेवं जायतेऽस्ति वर्धते विपरणमतेऽपक्षीयते विनश्यतीत्येवं यास्का [१]दिभिरुक्ताः षड्भावविकारा निरस्ताः । यदर्थमेते विकारा निरस्तास्तं प्रस्तुतं विनाशाभावमुपसंहरति–न हन्यते हन्यमाने शरीर इति ॥ २० ॥

 म० टी०-नायं हन्ति न हन्यत इति प्रतिज्ञाय न हन्यत इत्युपपादितमिदानी न हन्तीत्युपपादयन्नुपसंहरति----

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ॥
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥

 न विन(नं)ष्टुं शीलं यस्य तमविनाशिनमन्त्यविकाररहितम् । तत्र हेतुः--अव्ययं न विद्यते व्ययोऽवयवापचयो गुणापचयो वा यस्य तमव्ययमवयवापचयेन गुणापचयेन वा विनाशदर्शनात्तदुभयरहितस्य न विनाशः संभवतीत्यर्थः । ननु जन्यत्वेन विनाशित्वमनुमास्यामहे नेत्याह-अजमिति । न जायत इत्यजमाद्यविकाररहितम् । तत्र हेतुः---- नित्यं सर्वदा विद्यमानं, प्रागविद्यमानस्य हि जन्म दृष्टं न तु सर्वदा सत इत्यभिप्रायः । अथवाऽविनाशिनमवाध्यं सत्यमिति यावत् । नित्यं सर्वव्यापकम् । तत्र हेतुः---अजमव्ययं जन्मविनाशशून्यं जायमानस्य विनश्यतश्च सर्वव्यापकत्वसत्यत्वयोरयोगात् । एवं सर्वविक्रियाशून्यं प्रकृतमेनं देहिनं स्वमात्मानं यो वेद विजानाति शास्त्राचार्योपदेशाम्यां साक्षात्करोति अहं सर्वविक्रियाशून्यः सर्वभासकः सर्वद्वैतरहितः परमानन्दबोधरूप इति स एवं विद्वान्पुरुषः पूर्णरूपः कं हन्ति कथं हन्ति । किंशब्द आक्षेपे । न कमपि हन्ति न कथमपि हन्तीत्यर्थः । तथा कं घातयति कथं घातयति कमपि न घातयति कथमपि न घातयतीत्यर्थः । नहि सर्वविकारशून्यस्याकर्तृहननक्रियायां कर्तुत्वं संभवति । तथा च श्रुतिः----


  1. क. ञ. ‘दिभिर्वेदादिभि ।