पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ० २क्ष्लो०३० ]
६१
श्रीमद्भगवद्गीता ।


 म० टी० कस्मादयमात्मा हननक्रियायाः कर्ता कर्म च न भवति अविक्रियत्वादित्याहि द्वितीयेन मन्त्रेण---

न जायते म्रियते वा कदाचि-
 न्नायं भूत्वा भविता वा न भूयः ॥
अजो नित्यः शाश्वतोऽयं पुराणो
 न हन्यते हन्यमाने शरीरे ॥ २० ॥

 "जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीति षड्भावाविकारा इति वार्ष्यायणिः” इति नैरुक्ताः । तत्राऽऽद्यन्तयो निषेधः क्रियते--न जायते म्रियते वेति । वाशब्दः समुच्चयार्थः । न जायते न म्रियते चेत्यर्थः । कस्मादयमात्मा नोत्पद्यते, यस्मादयमात्मा कदाचित्कस्मिन्नपि काले न भूत्वाऽभूत्वा प्राग्भूयः पुनरपि भविता न । यो ह्यभूत्वा भवति स उत्पत्तिलक्षणां विक्रियामनुभवति । अयं तु प्रागपि सत्त्वाद्यतो नोत्पद्यतेऽतोऽजः । तथाऽयमात्मा भूत्वा प्राक्कदाचिद्भूयः पुनर्न भविता । नवाशब्दाद्वाक्यविपरिवृत्तिः । यो हि प्राग्भूत्वोत्तरकाले न भवति स मृतिलक्षणां विक्रियामनुभवति । अयं तूत्तरकालेऽपि सत्त्वाद्यतो न म्रियतेऽते नित्यो विनाशायोग्य इत्यर्थः । अत्र न भूत्वेत्यत्र समासाभावेऽपि नानुपपत्त्तिर्ननुयाजेष्वितिवत्, भगवता पाणिनिना महाविभाषाधिकारे नञ्समासपाठात् । यत्तु कात्यायनेनोक्तं समासनित्यताभिप्रायेण “वावचनानर्थ[१]क्यं तु स्वभावसिद्धत्वात् इति, तद्भगवत्पाणिनिवचनविरोधादनादेयम् । तदुक्तमाचार्यशबरस्वामिना--असद्वादी हि कात्यायनः' इति । अत्र न जायते म्रियते वेति प्रतिज्ञा । कदाचिन्नायं भूत्वा भविता वा न भूय इति तदुपपादनम् । अजो नित्य इति तदुपसंहार इति विभागः । आद्यन्तयोर्विकारयोर्निषेधेन मध्यवर्तविकाराणां तव्याप्यानां निषेधे जातेऽपि गमनादिविकाराणामनुक्तानामप्युपलक्षणायापक्षयश्च वृद्धिश्च स्वशब्देनैव निराक्रियेते । तत्र कूटस्थनित्यत्वादात्मनो निर्गुणत्वाच्च न स्वरूपतो गुणतो वाऽपक्षयः संभवतीत्युक्तं ---शाश्वत इति । शश्वत्सर्वदा भवति नापक्षीयते नापचीयत इत्यर्थः । यदि नापक्षीयते तर्हि वर्धतामिति नेत्याह--पुराण इति । पुराऽपि नव एकरूपो न त्वधुना नूतनां कांचिदवस्थामनुभवति । यो हि नूतनां कांचिदुपचयावस्थामनुभवति स वर्धत इत्युच्यते लोके । अयं तु सर्वदैकरूपत्वान्नापचीयते नोपचीयते चैत्यर्थः । अस्तित्वावपरिणामौ तु जन्मविनाशान्तर्भूतत्वात्पृथङ्न निषिद्धौ । यस्मादेवं सर्वविकारशून्य आत्मा तस्माच्छरीरे हन्यमाने तत्संबद्धोऽपि केनाप्युपायेन न हन्यते न हन्तुं शक्यत इत्युपसंहारः ॥ २० ॥


  1. ख. घ. ङ. छ. छ. ज. झ. ञ. 'क्यं चेति ।