सर्वगुह्यतमं भूयः शृणु मे परमं वचः ॥ |
पूर्व हि गुह्याकर्मयोगागुह्यतरं ज्ञानमाख्यातमधुना तु कर्मयोगात्तत्फलभूतज्ञानाच्च सर्वस्मादतिशयेन गुह्यं रहस्यं गुह्यतमं परमं सर्वतः प्रकृष्टं मे मम वचो वाक्यं भूयस्तत्र तत्रोक्तमपि त्वदनुग्रहार्थं पुनर्वक्ष्यमाणं शृणु । न लाभपूजाख्यात्याद्यर्थं त्वां ब्रवीमि किं तु इष्टः प्रियोऽसि मे मम दृढमतिशयेनेति यतस्ततस्तेनैवेष्टत्वेन वक्ष्यामि कथयिष्याम्यपृष्टोऽपि सन्नहं ते तव हितं परमं श्रेयः ॥ ६४ ॥
श्री०टी०-अतिगम्भीरं गीताशास्त्रमशेषतः पर्यालोचयितुमशक्नुवतः कृपया स्वयमेव तस्य सारं संगृह्य कथयति-सर्वगुह्यतममिति त्रिभिः । सर्वेभ्योऽपि गुह्येभ्यो गुह्यतमं मे वचस्तत्र तत्रोक्तमपि भूयः पुनरपि वक्ष्यमाणं शृणु । पुनःघ.न: क। पुनः कथने हेतुमाह-दृढमत्यन्तं मे मम त्वमिष्टः प्रियोऽसीति मत्वा । तत एव हेतोस्ते हितं वक्ष्यामि । यद्वा त्वं ममेष्टोऽसि मया वक्ष्यमाणं च दृढं सर्वप्रमाणोपेतमिति निश्चित्य ततस्ते वक्ष्यामीत्यर्थः । दृढमतिरिति केचित्पठन्ति ॥ ६४ ॥
म० टी०-तदेवाऽऽह--
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ॥ |
मयि भगवति वासुदेवे मनो यस्य स मन्मना भव सदा मां चिन्तय । द्वेषेण कंसशिशुपालादिरपि तथाऽत आह---मद्भक्तः प्रेम्णा मय्यनुरक्तः, मद्विषयेणानुरागेण सदा मद्विषयं मनः कुर्विति विधीयते । त्वद्विषयोऽनुराग एव केन स्यादित्यत आह-मद्याजी मां यष्टुं पूजयितुं शील यस्य स सदा मत्पूजापरो भव । पूजोपकरणाभावे तु मां नमस्कुरु कायेन वाचा मनसा च प्रह्वीभवनेनाऽऽराधय । इदं चार्चनं वन्दनं चान्येषामपि भागवतधर्माणामुपलक्षणम् । तथा चोक्तं श्रीभागवते-
" श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । |
एतच्च भक्तिरसायने व्याख्यातं विस्तरेण । एवं सदा भागवतधर्मानुष्ठानेन मय्यनुरा-
+ श्रीधरटीकादर्शपुस्तकेषु ग.घ. ङ, च. छ. संज्ञितेषु मूले दृढमतिरिति पाठः ।