वरणकृतः । अहं ब्रह्मास्मीतिचरमसाक्षात्कारानन्तरमहं ब्रह्म न भवामि न
जानामीत्यादिप्रत्ययो नास्त्येव । यदि परं घटं न जानामीत्यादिप्रत्ययः स्यात्तदुपपादनाय चेयं संस्कारकल्पनेति नानुपपन्नम् । अज्ञानलेशपदेनाप्ययमेव संस्कारो विवक्षितः ।
नहि सावयवमज्ञानं, येन कियन्नश्यति कियत्तिष्ठतीति वाच्यमनिर्वचनीयत्वात् । एकदेशाम्युपगमे तु तन्निवृत्त्यर्थं पुनश्चरमं ज्ञानमपेक्षितमेव । तच्च मृतिकाले दुर्घटमिति
तत्त्वज्ञानसंस्कारनाश्यता तस्याभ्युपेया । ततश्च संस्कारपक्षान्न कोऽपि विशेष इति
पूर्वोक्तैव कल्पना श्रेयसी । ईदृशजीवन्मुक्त्यपेक्षया च प्राग्भगवतोक्तम् "उपदेश्यन्ति ते
ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः' इति, स्थितप्रज्ञलक्षणानि च व्याख्यातानि । तस्मात्साधूक्तं
विशते तदनन्तरमिति ॥ ५५ ॥
श्री०टी०-ततश्च-भक्त्या मामिति । तया च परया भक्त्या तत्त्वतो माम. भिजानाति । कथंभूतम् , यावान्सर्वव्यापी यश्चास्मि सच्चिदानन्दघनस्तथाभूतम् । ततश्च मामेवं तत्त्वतो ज्ञात्वा तदनन्तरं तस्य ज्ञानस्याप्युपरमे सति मां विशते परमानन्दरूपो भवतीत्यर्थः ॥ ५५ ॥
म०टी०-ननु योऽनात्मज्ञोऽशुद्धान्तःकरणः सोऽन्तःकरणशुद्धिपर्यन्तं सहजं कर्म न त्यजेत् । यस्तु शुद्धान्तःकरणः स नैष्कर्म्यसिद्धिं संन्यासेनाधिगच्छतीत्युक्तम् । संन्यासश्च ब्राह्मणेनैव कर्तव्यो न क्षत्रियवैश्याभ्यामिति प्रागुक्तं भगवता "कर्मणैव हि संसिद्धिमास्थिता जनकादयः" इत्यत्र । तत्र शुद्धान्तःकरणेन क्षत्रियादिना किं कर्माण्यनुष्ठेयानि किं वा सर्वकर्मसंन्यासः कर्तव्यः । नाऽऽद्यः--
" आरुरुक्षोर्मुनेर्योग कर्म कारणमुच्यते । |
इत्यादिना योगमन्तःकरणशुद्धिमारूढस्य कर्मानुष्ठाननिषेधात् । न द्वितीयः-
" स्वधर्मे निधनं श्रेयः परधर्मो भयावहः । "
इत्यादिना ब्राह्मणधर्मस्य सर्वकर्मसंन्यासस्य क्षत्रियादिकं प्रति निषेधात् । नच कर्मानुष्ठानकर्मत्यागयोरन्यतरमन्तरेण तृतीयः प्रकारोऽस्ति । तस्मादुभयोरपि प्रतिषिद्धत्वेन गत्यन्तराभावेन चावश्यकर्तव्ये प्रतिषेधातिक्रमे कर्मत्याग एव श्रेयान्बन्धहेतुपरित्यागेन मोक्षसाधनपौष्कल्यात् , नतु कर्माण्यनुष्ठेयानि चित्तविक्षेपहेतुत्वेन मोक्षसाधनज्ञानप्रतिबन्धकत्वादित्यभिप्रायमर्जुनस्याऽऽलक्ष्याऽऽह भगवान्-
सर्वकर्माण्यपि सदा कुर्वाणो मद्यपाश्रयः॥ |
यः पूर्वोक्तैः कर्मभिः शुद्धान्तःकरणः सोऽवश्यं भगवदेकशरणो भगवदेकशरण-