पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०५७]
५०५
श्रीमद्भगवद्वीता।


तापर्यन्तत्वादन्तःकरणशुद्धेः । एतादृशश्चेद्राह्मणः संन्यासप्रतिबन्धरहितः सर्वकर्माणि संन्यस्यतु नाम । संसारविमोक्षस्तु तस्य भगवदेकशरणस्य भगवत्प्रसादादेव । एतादृशश्चेत्क्षत्रियादिः संन्यासानधिकारी स करोतु नाम कर्माणि, किंतु मद्यपाश्रयः, अहं भगवान्वासुदेव एव व्यपाश्रयः शरणं यस्य स मदेकशरणो मय्यर्पित सर्वात्मभावः संन्यासानधिकारात्सर्वकर्माणि सर्वाणि कर्माणि वर्णाश्रमधर्मरूपाणि लौकिकानि प्रतिषिद्धानि वा सदा कुर्वाणो मत्प्रसादान्ममेश्वरस्यानुग्रहादवाप्नोति हिरण्यगर्भवन्मद्विज्ञानोत्पत्त्या शाश्वतं नित्यं पदं वैष्णवमव्ययमपरिणामि । एतादृशो भगवदेकशरणः करोत्येव न प्रतिषिद्धानि कर्माणि, यदि कुर्यात्तथाऽपि मत्प्रसादात्प्रत्यवायानुत्पत्त्या मद्विज्ञानेन मोक्षभाग्भवतीति भगवदेकशरणतास्तुत्यर्थं सर्वकर्माणि सर्वदा कुर्वाणोऽपीत्यनूयते ॥ १६ ॥

 श्री०टी०-स्वकर्मभिः परमेश्वराराधनादुक्तं मोक्षप्रकारमुपसंहरति--सर्वकर्माणीति । सर्वकर्माणि नित्यनैमित्तिकानि काम्यानि च कर्माणि पूर्वोक्तक्रमेण मद्व्यपाश्रयः सन्कुर्वाणोऽहमेव व्यपाश्रय आश्रयणीयो नतु स्वर्गादिफलं यस्य स मत्प्रसा- दाच्छाश्वतमनादि अव्ययं नित्यं सर्वोत्कृष्टं वैष्णवं पदं प्राप्नोति ॥ १६ ॥

 म. टी०-यस्मान्मदेकशरणतामात्रं मोक्षसाधनं न कर्मानुष्ठानं कर्मसंन्यासो वा तस्मात्क्षत्रियस्त्वम्-

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ॥
बुद्धियोग[१]मुपाश्रिय मच्चित्तः सततं भव ॥ ५७ ॥

 चेतसा विवेकबुद्ध्या सर्वकर्माणि दृष्टादृष्टार्थानि मयीश्वरे संन्यस्य यत्करोषि यदश्वासीत्युक्तन्यायेन समर्प्य मत्परोऽहं भगवान्वासुदेव एव परः प्रियतमो यस्य स मत्परः सन्बुद्धियोगं पूर्वोक्तसमत्वबुद्धिलक्षणं योगं बन्धहेतोरपि कर्मणो मोक्षहेतुत्वसंपादक[२]मुपाश्रित्यानन्यशरणतया स्वीकृत्य मञ्चित्तो मयि भगवति वासुदेव एव चित्तं यस्य न राजनि कामिन्यादौ वा स मञ्चित्तः सततं भव ॥ ५७ ॥

 श्री०टी०-यस्मादेवं तस्मात्-चेतसेति । सर्वकर्माणि चेतसा मयि संन्यस्य समर्प्य मत्परोऽहमेव परः प्राप्यः पुरुषार्थो यस्य स व्यवसायात्मिकया बुद्ध्या योगमाश्रित्य सततं कर्मानुष्ठानकालेऽपि ब्रह्मार्पणं ब्रह्म हविरिति न्यायेन मय्येव चित्तं यस्य तथाभूतो भव ॥ ५७ ॥

 म० टी०-ततः किं स्यादिति त[३]दाह-


  1. क. ग. घ. च. झ. अ. गमपा ।
  2. क. म. घ. ङ. च. छ. ज. झ. अ. कमपा ।
  3. म. ङ. छ. भ. तत्राऽऽह ।