पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५००
[अ० १८ क्ष्लो० ५०]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 सर्वत्र पुत्रदारादिषु सक्तिनिमित्तेप्वपि असक्तबुद्धिरहमेषां ममैत इत्यभिष्वङ्गरहिता बुद्धिर्यस्य सः । यतो जितात्मा विषयेभ्यः प्रत्याहृत्य वशीकृतान्तःकरणः । विषयरागे सति कथं प्रत्याहरणं तत्राऽऽह-विगतस्पृहः, देहजीवितभोगेष्वपि वाञ्छारहितः सर्वदृश्येषु दोषदर्शनेन नित्यबोधपरमानन्दरूपमोक्षगुणदर्शनेन च सर्वतो विरक्त इत्यर्थः। य एवं शुद्धान्तःकरणः "स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः" इतिवचनप्रतिपादितां कर्मनामपरमां सिद्धिं ज्ञानसाधनवेदान्तवाक्यविचाराधिकारलक्षणां ज्ञाननिष्ठायोग्यतां प्राप्तः स संन्यासेन शिखायज्ञोपवीतादिसहितसर्वकर्मत्यागेन हेतुना तत्पूर्वकेण विचारेणेत्यर्थः । नैष्कर्म्यसिद्धि निष्कर्म ब्रह्म तद्विषयं विचारपरिनिषपन्नं ज्ञानं नैष्कर्म्यं तद्रूपां सिद्धिं परमां कर्मजाया अपरमसिद्धेः फलभूतामधिगच्छति साधनपरिपाकेण प्राप्नोति । अथवा संन्यासेनेतीत्थंभूतलक्षणे तृतीया । सर्वकर्मसंन्यासरूपां नैष्कर्म्यसिद्धिं ब्रह्मसाक्षात्कारयोग्यतां नैर्गुण्यलक्षणां सिद्धिं परमां पूर्वस्याः सिद्धेः सात्त्विक्याः फलभूतामधिगच्छतीत्यर्थः ॥ ४९ ॥

 श्री०टी०--ननु कथं कर्मणि क्रियमाणे दोषांशप्रहाणेन गुणांश एव संपत्स्यत इत्यपेक्षायामाह-असक्तेति । असक्ता सङ्गशून्या बुद्धिर्यस्य, जितात्मा निरहंकारः, विगतस्पृहो विगता स्पृहा फलविषयेच्छा यस्मात्स एवंभूतेन "स त्यागः सात्त्विको मतः" इत्येवं पूर्वोक्तेन कर्मासक्तितत्फलयोस्त्यागलक्षणेन संन्यासेन नैष्कर्म्यसिद्धिं सर्वकर्मनिवृत्तिलक्षणां सत्त्वशुद्धिमधिगच्छति । यद्यपि सङ्गफलयोस्त्यागेन कर्मानुष्ठानमपि नैष्कर्म्यमेव कर्तृत्वाभिनिवेशाभावात् , तदुक्तम् - " नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् " इत्यादिश्लोकचतुष्टयेन, तथाऽप्यनेनोक्तलक्षणेन संन्यासेन परमां नैष्कर्म्यसिद्धिं "सर्वकर्माणि मनसा संन्यस्याऽऽस्ते सुखं वशी" इत्येवलक्षणां पारमहंस्यापरपर्यायां प्राप्नोति ॥ ४९॥

 म० टी०-प्रागुक्तसाधनसंपन्नस्य सर्वकर्मसंन्यासिनो ब्रह्मज्ञानोत्पत्तौ साधनक्रममाह-

सिद्धि प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे॥
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥

 स्वकर्मणेश्वरमाराध्य तत्प्रसादजां सर्वकर्मत्यागपर्यन्तां ज्ञानोत्पत्तियोग्यतारूपां सिद्धिमन्तःकरणशुद्धिं प्राप्तो यथा ब्रह्म प्राप्नोति येन प्रकारेण शुद्धमात्मानं साक्षात्करोति तथा तं प्रकारं निबोध मे मद्वचनादवधारयानुष्ठातुम् । किमतिविस्तरेण नेत्याह-समासेन संक्षेपेणैव न तु विस्तरेण हे कौन्तेय । तदवधारणे किं स्यादित्यत आह-निष्ठा ज्ञानस्य या परा, ज्ञानस्य विचारपरिनिष्पन्नस्य निष्ठा परिसमाप्तिः । यदनन्तरं साध-