पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०५१-५२]
५०१
श्रीमद्भगवद्गीता।


नान्तरं नानुष्ठेयमस्ति । परा श्रेष्ठा सर्वान्त्या वा साक्षान्मोक्षहेतुत्वात् । तां सिद्धिं प्राप्तस्य ब्रह्मप्राप्तिरूपां ज्ञाननिष्ठां परां संक्षेपेण निबोधेत्यर्थः ॥ ५० ॥

 श्री०टी०-एवंभूतस्य परमहंसस्य ज्ञाननिष्ठया ब्रह्मभावप्रकारमाह-सिद्धिं प्राप्त इति षड्भिः । नैष्कर्म्यसिद्धिं प्राप्तः सन्यथा येन प्रकारेण ब्रह्म प्राप्नोति तथा तं प्रकारं संक्षेपेणैव मे वचनान्निबोध ॥ १० ॥

 म०टी०-सेयं ज्ञाननिष्ठा सप्रकारोच्यते-

बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च ॥
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥५॥

 विशुद्धया सर्वसंशयविपर्ययशून्यया बुद्ध्याऽहं ब्रह्मास्मीतिवेदान्तवाक्यजन्यया बुद्धिवृत्त्या युक्तः सदा तदन्वितो धृत्या धैर्येणाऽऽत्मानं शरीरेन्द्रियसंघातं नियम्योन्मार्गप्रवृत्तनिवार्याऽऽत्मप्रवणं कृत्वा । चशब्देन योगशास्त्रोक्तं साधनान्तरं समुच्चीयते । शब्दादीशब्दस्पर्शरूपरसगन्धान्विषयान्भोगेन बन्धहेतून् , सामर्थ्याज्ज्ञाननिष्ठार्थशरीरस्थितिमात्रप्रयोजनानुपयुक्ताननिषिद्धानपि त्यक्त्वा शरीरस्थितिमात्रार्थेषु च तेषु रागद्वेषौ व्युदस्य परित्यज्य । चकारादन्यदपि ज्ञानविक्षेपकं परित्यज्य, विविक्तसेवीत्यत्र स्यादित्यध्याहृतेन ब्रह्मभूयाय कल्पत इत्यनेन वाऽन्वयः ॥ ५१ ॥

 श्री० टी०--तदेवाऽऽह-बुद्ध्येति । उक्तेन प्रकारेण विशुद्धया पूर्वोक्तया सात्त्विक्या बुद्ध्या युक्तो धृत्या सात्त्विक्याऽऽत्मानं तामेव बुद्धिं नियम्य निश्चलां कृत्वा शब्दादीन्विषयांस्त्यक्त्वा तद्विषयौ रागद्वेषौ च व्युदस्य । बुद्ध्या विशुद्धया युक्त इत्यादीनां ब्रह्मभूयाय कल्पत इति तृतीयेनान्वयः ॥ ११ ॥

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ॥
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः॥५२॥

 म०टी०-विविक्तं जनसमर्दरहित पवित्रं च यदरण्यागारगुहादि तत्सवितुं शीलं यस्य स चित्तैकाग्र्यसंपत्त्यर्थं तद्विक्षेपकारिरहित इत्यर्थः । लघ्वाशी लघु परिमितं हितं मेध्यं चाशितुं शीलं यस्य स निद्रालस्यादिचित्तलयकारिरहित इत्यर्थः । यतानि संयतानि वाक्कायमानसानि येन स यमनियमासनादिसाधनसंपन्न इत्यर्थः । ध्यानयोगपरो नित्यं चित्तस्याऽऽत्माकारप्रत्ययावृत्तिर्ध्यानम् । आत्माकारप्रत्ययेन निर्वृत्तिकतापादनं योगः । नित्यं सदैव तत्परस्तयोरनुष्ठानपरो न तु मन्त्रजपतीर्थयात्रादिपरः कदाचिदित्यर्थः । वैराग्यं दृष्टादृष्टविषयेषु स्पृहाविरोधिचित्तपरिणामं समुपाश्रितः सम्यङ्निश्चलत्वेन नित्यमाश्रितः ॥ ५२ ॥

 श्री० टी०-किं च-विविक्तेति । विविक्तसेवी शुद्धदेशावस्थायी लघ्वाशी