पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७८
[अ०१८क्ष्लो०१८]
मधुसूदनसरस्वतीश्रीधरस्वायिकृतटीकाभ्यां समेता-


स्थितं किमु वक्तव्यं पदान्तरसमभिव्याहाररूपाद्वाक्यालीयस्त्वमिति । वाक्यार्थान्वयलभ्यत्वाच्च नेष्टसाधनत्वं पदार्थः । तथा हि प्रवर्तनाकर्मभूता पुरुषप्रवृत्तिरूपाऽर्थभावना कि केन कथमित्यंशत्रयवती विधिना[१]ऽऽलम्बत्वेन प्रतिपाद्यत इत्युक्तं प्राक् । अपुरुषार्थकर्मिकायां च तस्यां प्रवर्तनानुपपत्तेरेकपदोपस्थापितमप्यपुरुषार्थं धात्वर्थं विहाय भिन्नपदोपात्तमन्यविशेषणमपि कमिपदसंबन्धेन साध्यतान्वययोग्यं स्वर्गमेव पुरुषार्थं साभाव्यतयाऽऽलम्बते । इच्छाविषयस्यैव कृतिविषयत्वनियमात् । स्वर्ग कामयते स्वर्गकाम इति क[२]र्मणि द्वितीयाया अन्तर्भूतत्वात् , यजतेरकर्मकत्वेन स्वर्गमित्युक्तेऽनन्वयाच्च। अत एव यत्र कमिपदं न श्रूयते तत्रापि तत्कल्प्यते । यथा “प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्ति" इत्यादौ प्रतिष्ठाकामा रात्रिसत्रमुपेयुरित्यादि । एवं च लब्धभाव्यायां तस्यां समानपदोपस्थापितो धात्वर्थ एव करणतयाऽन्वेति भाव्यांशस्य कमिविषयेणावरुद्धत्वात्सुब्विभक्तियोग्ये धात्वर्थनामधेये ज्योतिष्टोमादौ तृतीयाश्रवणात् । यत्रापि नामधेये द्वितीया श्रूयते तत्रापि व्यत्ययानुशासनेन तृतीयाकल्पनात् । तदुक्तं महाभाष्यकारैरग्निहोत्रं जुहोतीति तृतीयार्थे द्वितीयेति । अत एव तैः प्रकृतिप्रत्ययौ प्रत्यथार्थ सह ब्रूतस्तयोः प्रत्ययार्थः प्राधान्येन प्रकृत्यर्थो गुणत्वेनेति प्रत्यया[३]र्थभावनां प्रति धात्वर्थस्य गुणत्वेन करणत्वमुक्तम् । आख्यातं क्रियाप्रधानमिति वदद्भिनिरुक्तकारैरप्येतदेवोक्तम् । भावार्थाधिकरणे च तथैव स्थितम् । तेन सर्वत्र प्रत्ययार्थं प्रति धात्वर्थस्य करणत्वेनैवान्वयनियमः । अत एव गुणविशिष्टधात्वर्थविधौ धात्वर्थानुवादेन केवलगुणविधौ च मत्वर्थलक्षणा विधेर्विप्रकृष्टविषयत्वं च । यथा सोमेन यजेतेति विशिष्टविधौ सोमवता यागेनेति दध्ना जुहोतीति गुणविधौ दधिमता होमेनेति । नामधेयान्वये तु सामानाधिकरण्योपपत्तेर्धात्वर्थमात्रविधानाच्च न मत्वर्थलक्षणा न वा विधिविप्रकर्पः । तदेवं ज्योतिष्टोमेन यजेत स्वर्गकाम इत्यत्राऽऽख्यातार्थो भावयेदिति किमित्याकाङ्क्षायां कमिविषयं वर्गमिति विधिश्रुतेर्बलीयस्त्वादाकाङ्कर्क्षाया उत्कटत्वाच्च । तथाच स्थितं षष्ठाद्ये । ततः केनेत्यपेक्षिते यागेनेति तृतीयान्तपदसमानाधिकरणत्वात्करणत्वेनैवान्वयनियमाच्च । किनाम्नेत्यपेक्षिते ज्योतिष्टोमेनेति तन्नाम्नेत्यर्थः । शब्दादनुपस्थितोऽपि ज्योतिष्टोमशब्दो भासत एव शाब्दे बोधे श्रवणेनोपस्था[४]पितस्तात्पर्यवशात् । नामधेयान्वये च न विभक्त्यर्थो द्वारं नञिवाद्यर्थान्वय इव । तेन मत्वर्थलक्षणामन्तरेणैव ज्योतिष्टोमशब्दवतेत्यन्वयलाभः । तथाच कविप्रयोग:-"हिमालयो नाम नगाधिराजः" इति । हिमालयनामवानित्यर्थः । एवमिह "प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति" इत्यादावगृहीतसंगतिकैकपदवति वाक्ये मधुकरादिपदं स्वरूपेणैव भासते नामधेयवन्नार्थमुपस्था-


  1. ग. घ. नाऽलत्वे । ङ. छ. अ. 'ना तत्त्वेन । ज. नाऽलभ्यलें।
  2. क. ज. भण्याणि
  3. क. ख. घ. च. छ. ज. यार्थ भा।
  4. ग. ड. अ. 'पितात्तात्प।