पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०१८]
४७९
श्रीमद्भगवद्गीता।


पयति प्रागगृहीतसंगतिकत्वात्। अत एव मधुकरशब्दवाच्य इत्यपि लक्षणया नान्वयः शक्यज्ञानपूर्वकत्वाल्लक्ष्यज्ञानस्य । स्वरूपतस्तु शब्दे भाते वाच्यवाचकसंबन्धः पश्चात्कल्प्यते संसर्गनिर्वाहायेति । तदयं वाक्यार्थ:-ज्योतिष्टोमनाम्ना यागेन स्वर्गमिष्टं भावयेदिति । कथमित्यपेक्षिते श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यामिः सामवायिकारादुपकारकाङ्गग्रामपूत्येति विकृतौ प्रकृतिवदित्युपबन्धेन नित्ये यथाशक्तीत्युपबन्धेन मुख्यालाभे प्रतिनिधायापीति यावन्यायलभ्यं तत्पूरणम् । एवं च यागस्य स्वर्गावच्छिन्नभावनाकरणत्वेन स्वर्गकरणत्वं करणत्वेन च साक्षात्कर्तृव्यापारविषयत्वरूपं कृतिसाध्यत्वं श्रुत्यर्थाभ्यां लभ्यत इति तदुभयमपि न लिङगादिपदवाच्यमप्राप्ते शास्त्रमर्थवदिति न्यायात् । अनन्वयाच्च, इष्टसाधनमिति समासे गुणभूतमिष्टपदं स्वर्गकाम इतिसमासान्तरगुणभूतेन स्वर्गपदेन कथमन्वियादिष्टस्वर्गसाधनमिति । नहि राजपुरुषो वीरपुत्र इत्यत्र वीरपदराजपदयोरन्वयोऽस्ति पदार्थः पदार्थेनान्वेति नतु पदार्थैकदेशेनेति न्यायात् । करणविभक्त्यन्तज्योतिष्टोमादिनामधेयानन्वयप्रसङ्गादिदोषाश्चास्मिन्पक्षे द्रष्टव्याः । एतेनेष्टसा धनत्वमनिष्टासाधनत्वं कृतिसाध्यत्वमिति त्रयमपि विध्यर्थ इत्यपास्तम् । अतिगौरवादर्थवादानां सर्वथा वैयर्थ्यापत्तेश्च । अत एव कृतिसाध्यत्वमात्रं विध्यर्थ इत्यपि न भावनाकरणत्वेनार्थलभ्यत्वादित्युक्तेः । अलौकिको नियोगस्त्वलौकिकत्वादेव न विध्यर्थः। पराक्रान्तं चात्र सूरिभिः । तस्मादनन्यलभ्या लघुभूता च प्रेरणैव लिङ्गादिपदवाच्येति स्थितम् । प्रवर्तकं तु. ज्ञानं वाक्यार्थमर्यादालभ्यमन्यदेव सर्वेषामपि वादिनाम् । आख्यातार्थ एव च विशेष्यतया भासते न धात्वर्थो न नामार्थः स्वर्गकामो वेति चोक्तप्रायमेव । तेन च यागानुकूलकृतिमान्स्वर्गकाम इति तार्किकमतं पुरुषविशेष्यकवाक्यार्थज्ञानमपास्तम् ।

संक्षेपेण मतं मामिदमत्रोपपादितम् ।
यद्वक्तव्यमिहान्यत्तदनुसंधेयमाकरात् ॥ १८ ॥

 श्री० टी०-हत्वाऽपि न हन्ति न निवध्यत इत्येतदेवोपपादयितुं कर्मचोदनायाः कर्माश्रयस्य च कर्मफलादीनां च त्रिगुणात्मकत्वान्निर्गुणस्याऽऽत्मनस्तत्संबन्धो नास्तीत्यभिप्रायेण कर्मचोदनां कर्माश्रयं चाऽऽह-ज्ञानमिति । ज्ञानमिष्टसाधनमेतदिति बोधः । ज्ञेयमिष्टसाधनं कर्म । परिज्ञातवंभूतज्ञानाश्रयः । एवं त्रिविधा कर्मचोदना चोद्यते प्रवर्त्यतेऽनयेति चोदना । ज्ञानादित्रितयं कर्मप्रवृत्तिहेतुरित्यर्थः । यद्वा चोदनेति विधिरुच्यते । तदुक्तं भट्टै:-" चोदना चोपदेशश्च विधिश्चैकार्थवाचिनः " इति । ततश्चायमर्थः---उक्तलक्षणं त्रिगुणात्मकं ज्ञानादित्रयमवलम्ब्य कर्मविधिः प्रवर्तत इति । तदुक्तम्-त्रैगुण्यविषया वेदा इति । तथाच करणं साधकतमं, कर्म च कर्तुरीप्सिततमं, कर्ता क्रियानिर्वर्तकः । कर्म संगृह्यतेऽस्मिन्निति कर्मसंग्रहः करणादि