पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
[अ० २क्ष्लो०१६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


पेति चेत्, न, मानस्य सर्वदेशकालानुस्यूततया भेदकधर्मशून्यतया च विभोर्नित्यस्यैकस्य चानित्यपरिच्छिन्नानेकरूपबुद्धिपरिणामात्मकत्वानुपपत्तेः । उत्पत्तिविनाशादिप्रतीतेश्चावश्यकल्प्याविषयसंबन्धविषयतयाऽप्युपपत्तेः । अन्यथा तत्त[१]ज्ज्ञानेात्पत्तिविनाशभेदा- दिकल्पनायामतिगौरवापत्त्तेरित्याद्यन्यत्र विस्तरः । तथाच श्रुतिः-" न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् , आकाशवत्सर्वगतश्च नित्यः, महद्भूतमनन्तमपारं विज्ञानघन एव, तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः' इत्याद्या विभुनित्यस्वप्रकाशज्ञानरूपतामात्मनो दर्शयति । एतेनाविद्यालक्षणादप्युपधिर्व्यतिरेकः सिद्धः । अतोऽसत्योपाधिनिबन्धनबन्धभ्रमस्य सत्यात्मज्ञानान्निवृत्तौ मुक्तिरिति सर्वमवदातम् । पुरुषर्षभेति संबोधयन्स्वप्रकाशचैतन्यरूपत्वेन पुरुषत्वं परमानन्दरूपत्वेन चाऽऽत्मन ऋषभत्वं सर्वद्वैतापेक्षया श्रेष्ठत्वमजानन्नेव शोचसि अतः स्वस्वरूपज्ञानादेव तव शोकनिवृत्तिः सुकरा “तरति शोकमात्मवित्' इति श्रुतेरिति सूचयति । अत्र पुरुषमित्येकवचनेन सांख्यपक्षी निराकृतस्तैः पुरुषबहुत्वाभ्युपगमात् ॥ १५ ॥

 श्री० टी०–तत्प्रतीकारप्रयत्नादपि तत्सहनमेवोचितं महाफलत्वादित्याह---- यमिति । एते मात्रास्पर्शा यं पुरुषं न व्यथयन्ति नाभिभवन्ति । समे सुखदुःखे यस्य तम् । स तैरविक्षिप्यमाणो धर्मज्ञानद्वाराऽमृतत्वाय मोक्षाय कल्पते येाग्यो भवति ॥ १९ ॥

  म० टी०- ननु भवतु पुरुषैकत्वं तथाऽपि तस्य स[२]त्यजडदृष्टृत्वरूपः सत्य एव संसारः । तथाच शीतोष्णादिसुखदुःखकारणे सति तद्भोगस्याऽऽवश्यकत्वात्सत्यस्य च ज्ञानाद्विनाशानुपपत्तेः कथं तितिक्षा कथं वा सोऽमृतत्वाय कल्पत इति चेत्, न, कृत्स्नस्यापि द्वैतप्रपञ्चस्याऽऽत्मनि कल्पितत्वेन तज्ज्ञानाद्विनाशोपपत्तेः शुक्तौ कल्पितस्य रजतस्य शक्तिज्ञानेन विनाशवत् कथं पुनरात्मनात्मनोः प्रतीत्यावशेष आत्मवदनात्माऽपि सत्यो न भवेदनात्मवदात्माऽपि मिथ्या न भवेदुभयोस्तुल्ययोगक्षेमत्वादित्याशङ्कय विशेषमाह भगवान्---

नासतो विद्यते भावो नाभावो विद्यते सतः ॥
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः ॥ १६ ॥

 यत्कालतो देशता वस्तुतो वा परिच्छिन्नं तदसत् । यथा घटादि जन्मविनाशशीलं प्राक्कालेन परकालेन च परिच्छिद्यते ध्वंसप्रागभावप्रतियोगित्वात् । कादचित्कं कालपरिच्छिन्नमित्युच्यते । एवं देशपरिच्छिन्नमपि तदेव मूर्तत्वेन सर्वदेशावृत्तित्वात् । कालपरिच्छिन्नस्य देशपरिच्छेदनियमेऽपि देशपरिच्छिन्नत्वेनाभ्युपगतस्य परमाण्वादेस्तार्किकैः का-


  1. घ. ज. सदज्ञानो"।
  2. क. 'यस्य ज ।