पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
[अ०२क्ष्लो०१५ ]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता--


निर्देशः । तथा चात्यन्तास्थिरांस्त्वद्भिन्नस्य विकारिणः सुखदुःखादिप्रदान्भीष्मादिसंयोगवियोगरूपान्मात्रास्पर्शास्त्वं तितिक्षस्व नैते मम किंचित्करा इति विवेकेनोपेक्षस्व दुःखितादात्म्याध्यासेनाऽऽत्मानं दुःखिनं मा ज्ञासीरित्यर्थः । कौन्तेय भारतेति संबोध- नद्वयेनोभयकुलविशुद्धस्य तवाज्ञानमनुचितमिति सूचयति ॥ १४ ॥

 श्री०टी०-ननु गतासूनगतासुंश्चाहं न शोचामि किंतु तद्वियोगादिदुःखभाजं मामेवेति चेत्तत्राऽऽह----मात्रास्पर्शा इति । मीयन्ते[१] वि,या आभिरिति मात्रा इन्द्रियवृतयस्तासां स्पर्शा विषयैः संबन्धास्ते शीतोष्णादिप्रदा भवन्ति । ते त्वागमापायित्वादनित्या अस्थिराः । अतस्तांस्तितिक्षस्व सहस्व । यथा जलातपादि संपर्कस्तत्तत्कालकृताः स्वभावतः शीतोष्णादि प्रयच्छन्ति एवमिष्ट संयोगवियोगा अपि सुखदुःखादि प्रयच्छन्ति तेषां चास्थिरत्वात्सहनं तव धीरस्योचितं नतु तन्निमित्तहर्षविषादपारवश्यमित्यर्थः॥१४॥

 म० टी०-नन्वन्तःकरणस्य सुखदुःखाद्याश्रयत्वे तस्यैव कर्तृत्वेन भोक्तृत्वेन च चैतनत्वमभ्युपेयं, तथा च तव्द्यतिरिक्ते तद्भासके भोक्तरि मानाभावान्नाममात्रे विवादः स्यात्, तदभ्युपगमे च बन्धमोक्षयोर्वैयधिकरण्यापत्तिः, अन्तःकरणस्य सुखदुःखाद्याश्रयत्वेन बद्धत्वात् , आत्मनश्च तव्द्ययतिरिक्तस्य मुक्तत्वादित्याशङ्कामर्जुनस्यापनेतुमाह भगवान्---


यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ॥
समदुःखसुखं धीरे सोऽमृतत्वाय कल्पते ॥ १५ ॥

 यं स्वप्रकाशत्वेन स्वत एव प्रसिद्धम् “अत्रायं पुरुषः स्वयंज्योतिर्भवति इति श्रुतेः, पुरुषं पूर्णत्वेन पुरि शयानं स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैतेन किंचनानावृतं नैतेन किंचनासंवृतम्” इति श्रुतेः, समदुःखसुखं समे दुःखसुखे अनात्मधर्मतया भास्यतया च यस्य निर्विकारस्य स्वयंज्योतिषस्तं, सुखदुःस्वग्रहणमशेषान्तःकरणपरिणामोपलक्षणार्थम्, ‘* एष नित्यो महिमा ब्राह्मणस्य न[२] कर्मणा वर्धते नो कनीयान् इति श्रुत्या वृद्धिकनीयस्तारूपयोः सुखदुःखयोः प्रतिषेधात् , धीरं धियमीरयति प्रेरयतीति व्युत्पत्या चिदाभासद्वारा धीतादात्म्याध्यासेन धीप्रेरकं धीसाक्षिणमित्यर्थः । "सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति इति श्रुतेः । एतेन बन्धप्रसक्तिर्दशिता । तदुक्तम्-

"यतो मानानि सिध्यन्ति जाग्नदादित्रयं तथा ।
भावाभावविभागश्च स ब्रह्मास्मीति बोध्यते " इति ॥


  1. क. ‘न्ते ज्ञायन्ते वि” ।
  2. ख. ग. घ. ङ. छ. ज. झ. ञ. न वर्धते कर्मणा नौ ।