पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३४
[अ०१६क्ष्लो ०२३-२४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 श्री०टी०--त्यागे च विशिष्टफलमाह-एतैरिति । तमसो नरकस्य द्वारभूतैरेतैस्त्रिभिः कामादिभिर्विमुक्तो नर आत्मनः श्रेयःसाधनं तपोयोगादिकर्माऽऽचरति । ततश्च मोक्षं प्राप्नोति ॥ २२ ॥

 म.टी०-यस्मादश्रेयोनाचरणस्य श्रेयआचरणस्य च शास्त्रमेव निमित्तं तयोः शास्त्रैकगम्यत्वात्तस्मात्-

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ॥
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥२३॥

 शिष्यतेऽनुशिष्यतेऽपूर्वोऽर्थो बोध्यतेऽनेनेति शास्त्रं वेदस्तदुपजीविस्मृतिपुराणादि च, तत्संबन्धी विधिर्लिङादिशब्दः कुर्यान्न कुर्यादित्येवंप्रवर्तनानिवर्तनात्मकः कर्तव्याकर्तव्यज्ञानहेतुर्विधिनिषेधाख्यस्तं शास्त्रविधिं, विधिनिषेधातिरिक्तमपि ब्रह्मप्रतिपादकं शास्त्रमस्तीति सूचयितुं विधिशब्दः । उत्सृज्याश्रद्धया परित्यज्य कामकारतः स्वेच्छामात्रेण वर्तते विहितमपि नाऽऽचरति निषिद्धमप्याचरति यः स सिद्धिं पुरुषार्थप्राप्तियोग्यतामन्तःकरणशुद्धिं कर्माणि कुर्वन्नपि नाऽऽप्नोति, न सुखमैहिकं, नापि परां प्रकृष्टां गति स्वर्गं मोक्षं वा ॥ २३ ॥

 श्री०टी०-कामादित्यागश्च स्वधर्माचरणं विना न भवतीत्याह-य इति । शास्त्रविधिं वेदविहितं धर्ममुत्सृज्य यः कामकारतो यथेच्छं वर्तते स सिद्धिं तत्त्वज्ञानं न प्राप्नोति । न च सुखमुपशमं नच परां गतिं मुक्तिं प्राप्नोति ॥ २३ ॥

 म०टी०-यस्मादेवम् ---

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ॥
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ २४ ॥

इति श्रीमहाभारते शतसाहस्यां संहिताया वैयासिक्यां

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसंप-

द्विभागयोगो नाम षोडशोऽ-

ध्यायः ॥ १६ ॥

यस्माच्छास्त्रविमुखतया कामाधीनप्रवृ[१]त्तिरैहिकपारत्रिकसर्वपुरुषार्थायोग्यस्तस्मात्ते तव


  1. छ. वृत्तेरें ।