पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२४
अ०११क्ष्लो०६-७]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


तानि च नानाविधान्यनेकप्रकाराणि दिव्यान्यत्यद्भुतानि नाना विलक्षणा वर्णा नीलपीतादिप्रकारास्तथाऽऽकृतयश्चावयवसंस्थानविशेषा येषां तानि नानावर्णाकृतीनि च मे मम रूपाणि पश्य । अर्हे लोट् । द्रष्टुमर्हो भव हे पार्थ ॥ ५ ॥

 श्री०टी०एवं प्रार्थितः सन्नत्यद्भुतं रूपं दर्शयिष्यन्सावधानो भवेत्ये[१]वं श्रीभगवानुवाच पश्येति चतुर्भिः-रूपस्यैकत्वेऽपि नानाविधत्वाद्रूपाणीति बहुवचनम् । अपरिमितान्यनेकप्रकाराणि दिव्यान्यलौकिकानि मम रूपाणि पश्य । वर्णाः शुक्लकृष्णादय आकृतयोऽवयवसंनिवेशविशेषा नानाऽनेके वर्णा आकृतयश्च येषां तानि नानावर्णाकृतीनि च ॥५॥

 म०टी०-दिव्यानि रूपाणि पश्येत्युक्त्वा तान्येव लेशतोऽनुक्रामति द्वाभ्याम्-

पश्याऽऽदित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ॥
बहून्यदृष्टपूर्वाणि पश्याऽऽश्चर्याणि भारत ॥ ६ ॥

पश्याऽऽदित्यान्द्वादश, वसूनष्टौ, रुद्रानेकादश, अश्विनौ द्वौ, मरुतः सप्तसप्तकानेकोनपञ्चाशत् । तथाऽन्यानपि देवानित्यर्थः । बहून्यन्यान्यदृष्टपूर्वाणि पूर्वमदृष्टानि मनुष्यलोके त्वया त्वत्तोऽन्येन वा केनचित्पश्याऽऽश्चर्याण्यद्भुतानि हे भारत । अत्र शतशोऽथ सहस्रशः । नानाविधानीत्यस्य विवरणं बहूनीति आदित्यानित्यादि चा ! अदृष्टपूर्वाणीति दिव्यानीत्यस्य, आश्चर्याणीति नानावर्णाकृतीनीत्यस्येति द्रष्टव्यम् ॥ ६ ॥

 श्री०टी०-तान्येवाऽऽह-पश्येति । आदित्यादीन्मम देहे पश्य । मरुत एकोनपञ्चाशद्देवविशेषान् । अदृष्टपूर्वाणि त्वया वाऽन्येन वा पूर्वमदृष्टानि रूपाणि । आश्चर्याण्यत्यद्भुतानि ॥ ६ ॥

 म०टी०--न केवलमेतावदेव, समस्तं जगदपि मद्देहस्थं द्रष्टुमर्हसीत्याह-

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ॥
मम देहे गुडाकेश यच्चान्यद्रष्टुमिच्छसि ॥ ७ ॥

 इहास्मिन्मम देह एकस्थमेकस्मिन्नेवावयवरूपेण स्थितं जगत्कृत्स्नं समस्तं सचराचरं जङ्गमस्थावरसहितं तत्र तत्र परिभ्रमता वर्षकोटिसहस्रेणापि द्रष्टुमशक्यमद्याधुनैव पश्य हे गुडाकेश । यच्चान्यज्जयपराजयादिकं द्रष्टुमिच्छसि तदपि संदेहोच्छेदाय पश्य ॥ ७॥

 श्री० टी०-किंच-इहेति । तत्र तत्र परिभ्रमता वर्षकोटिभिरपि द्रष्टुमशक्यं कृत्स्नमपि चराचरसहितं जगदिहास्मिन्मम देहेऽवयवरूपेणैकत्रैव स्थितमद्याधुनैव


  1. क. ख. ग. घ. ह. अ. त्येवमर्जुनमभिमुखी करोति श्री । छ. ज. झ. 'त्येवमर्नुनमभिमुखी करोति ।