पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १० क्ष्लो०१४-१५]
३०९
श्रीमद्भगवद्गीता।


सर्वमेतदृतं मन्ये यन्मां वदसि केशव ॥
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १४ ॥

 म०टी०-सर्वमेतदुक्तमृषिभिश्च त्वया च तदृतं सत्यमेवाहं मन्ये यन्मां प्रति वदसि केशव । नहि त्द्वचसि मम कुत्राप्यप्रामाण्यशङ्का, तच्च सर्वज्ञत्वात्त्वं जानासीति केशौ ब्रह्मरुद्रौ सर्वेशावप्यनुकम्प्यतया वात्यवगच्छतीति व्युत्पत्तिमाश्रित्य निरतिशयैश्वर्यप्रतिपादकेन केशवपदेन सूचितम् । अतो यदुक्तं " न मे विदुः सुरगणाः प्रभवं न महर्षयः" इत्यादि तत्तथैव । हि यस्मात् , हे भगवन्समग्रैश्वर्यादिसंपन्न ते तव व्यक्ति [१] प्रभावं ज्ञानातिशयशालिनोऽपि देवा न विदुर्नापि दानवा न महर्षय इत्यपि द्रष्टव्यम् ॥ १४ ॥

 श्री०टी०-अतो ममेदानीं त्वदैश्वर्येऽसंभावना निवृत्तेत्याह-सर्वमिति । एत- द्भवानेव परं ब्रह्मेत्यादि सर्वमपि ऋतं सत्यं मन्ये । यन्मां प्रति त्वं कथयसि " न मे विदुः सुरगणा इत्यादि " तदपि सत्यमेव मन्य इत्याह-न ह्रीति । हे भगवस्ते तव व्यक्तिं देवा न विदुरस्मदनुग्रहार्थमियमभिव्यक्तिरिति न जानन्ति । दानवाश्चास्मन्निग्रहार्थमिति न विदुरेव ॥ १४॥

 म०टी०-यतस्त्वं तेषां सर्वेषामादिरशक्यज्ञानश्चातः-

स्वयमेवाऽऽत्मनाऽऽत्मानं वेत्थ वं पुरुषोत्तम ॥
भूतभावन भूतेश देवदेव जगत्पते ॥ १५॥

 स्वयमेवान्योपदेशादिकमन्तरेणैव त्वमेवाऽऽत्मना स्वरूपेणाऽऽत्मानं निरुपाधिकं सोपाधिकं च, निरुपाधिकं प्रत्यक्त्वेनाविषयतया सोपाधिकं च निरतिशयज्ञानैश्वर्यादिशक्तिमत्त्वेन वेत्थ जानासि नान्यः कश्चित् । अन्यैर्ज्ञातमशक्यमहं कथं जानीयामित्याशङ्कामपनुदन्प्रेमौत्कण्ठ्येन बहुधा संबोधयति हे पुरुषोत्तम त्वदपेक्षया सर्वेऽपि पुरुषा अपकृष्टा एव । अतस्तेषामशक्यं सर्वोत्तमस्य तव शक्यमेवेत्यभिप्रायः । पुरुषोतमत्वमेव विवृणोति पुनश्चतुर्भिः संबोधनैः-~-भूतानि सर्वाणि भावयत्युत्पादयतीति हे भूतभावन सर्वभूतपितः । पिताऽपि कश्चिन्नेष्टस्तत्राऽऽह हे भूतेश सर्वभूतनियन्तः । नियन्ताऽपि कश्चिन्नाऽऽराध्यस्तत्राऽऽह हे देवदेव देवानां सर्वाराध्यानामप्याराध्यः । आराध्योऽपि कश्चिन्न पालयितृत्वेन पतिस्तत्राऽऽह हे जगत्पते हिताहितोपदेशकवेदप्रणेतृत्वेन सर्वस्य जगतः पालयितः । एतादृशसर्वविशेषणविशिष्टस्त्वं सर्वेषां पिता सर्वेषां गुरुः सर्वेषां राजाऽतः सर्वैः प्रकारैः सर्वेषामाराध्य इति किं वाच्यं पुरुषोत्तमत्व तवेति भावः ॥ १५ ॥


  1. ज. प्रभवं।