पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१०
[अ० १० क्ष्लो०१६-१८]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-

 श्री०टी०-कि तर्हि-स्वयमिति । स्वयमेव त्वमेवाऽऽत्मानं वेत्थ जानासि नान्यः । तदप्यात्मना स्वेनैव वेत्थ न साधनान्तरेण । अत्यादरेण बहुधा संबोधयति हे पुरुषोत्तम पुरुषेषूत्तम पुरुषोत्तम । पुरुषोत्तमत्वे हेतुगर्भाणि विशेषणानि संबोधनानि हे भूतभावन भूतोत्पादक । भूतानामीश नियन्तः । देवानामादित्यादीनां देव प्रकाशक । जगत्पते विश्वपालक ॥ १५ ॥

 म०टी०-यस्मादन्येषां सर्वेषां ज्ञातुमशक्या अवश्यं ज्ञातव्याश्च तव विभूतयस्तस्मात्-

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः॥
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१६॥

 याभिर्विभूतिभिरिमान्सर्वाल्लोकान्व्याप्य त्वं तिष्ठसि तास्तवासाधारणा विभूतयो दिव्या असर्वज्ञैर्ज्ञातुमशक्या हि यस्मात्तस्मात्सर्वज्ञस्त्वमेव ता अशेषेण वक्तुमर्हसि॥१६॥

 श्री०टी०-यस्मात्तवाभिव्यक्तिं त्वमेव वेत्सि न देवादयस्तस्मात्-वक्तुमर्हसीति । या आत्मनस्तव दिव्या अत्यद्भुता विभूतयस्ताः सर्वा वक्तुं त्वमेवार्हसि योग्यो[१] भवसि । याभिरिति विभूतीनां विशेषणं स्पष्टार्थम् ॥ १६ ॥

 म०टी०-कि प्रयोजनं तत्कथनस्य तदाह द्वाभ्याम् -

कथं विद्यामहं योगिस्त्वां सदा परिचिन्तयन् ॥
केषु केषु च भावेषु चिन्योऽसि भगवन्मया ॥ १७ ॥

 योगो निरतिशयैश्वर्यादिशक्तिः सोऽस्यास्तीति हे योगिन्निरतिशयैश्वर्यादिशक्तिशालिन्नहमतिस्थूलमतिस्त्वां देवादिभिरपि ज्ञातुमशक्यं कथं विद्यां जानीयां सदा परिचिन्तयन्सर्वदा ध्यायन् । ननु मद्विभूतिषु मां ध्यायज्ञास्यसि तत्राऽऽह-केषु केषु च भावेषु चेतनाचेतनात्मकेषु वस्तुषु त्वद्विभूतिभूतेषु मया चिन्त्योऽसि हे भगवन्॥१७॥

 श्री०टी०-कथनप्रयोजनं दर्शयन्प्रार्थयते कथमिति द्वाभ्याम् -हे योगिन्कथं कैर्विभूतिभेदैः सदा परचिन्तयन्नहं त्वां विद्यां जानीयाम् । विभूतिभेदेन चिन्त्योऽपि त्वं केषु केषु पदार्थेषु मया चिन्तनीयोऽसि ॥ १७ ॥

 म०टी०-अत:-

विस्तरेणाऽऽत्मनो योगं विभूतिं च जनार्दन ॥
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥१८॥

आत्मनस्तव योगं सर्वज्ञत्वसर्वशक्तित्वादिलक्षणमैश्चर्यातिशयं विभूतिं च ध्यानालम्बनं विस्तरेण संक्षेपेण सप्तमे नवमे चोक्तमपि भूयः पुनः कथय सवैजनैर-


  1. ख, ग, ङ, च. छ. ज. अ. 'ग्योऽसि ।