पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
[अ० २क्ष्लो ०११]
मधुसूदनसरस्वतीश्रीधरस्वामकृतटीकाभ्यां समेता---


 म० टी०–ततः किं वृत्तमित्यपेक्षायाम् -

संजय उवाच-
 एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत् ॥
 विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४७ ॥

इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासि-

क्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसं-

वादेऽर्जुनविषादयोगो नाम प्रथ-

मोऽध्यायः ॥ १ ॥

 संख्ये सङ्ग्रामे रथोपस्थे रथस्योपर्युपविवेश । पूर्वं युद्धार्थमवलोकनार्थं चोत्थितः सशोकेन संविग्नं पीडितं मानसं यस्य सः ॥ ४७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यविश्वेश्वर सरस्वतीश्रीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां प्रथमोऽध्यायः ॥ १ ॥

 श्री० टी०–ततः किं वृत्तमित्यपेक्षायाम्-एवमिति । संख्ये सङ्ग्रामे रथो- पस्थे रथस्योपरि उपाविशदुपविवेश ! शोकेन संविग्नं प्रकम्पितं मानसं चित्तं यस्य सः ॥ ४७ ॥

इति श्रीसुबोधिन्यां टीकायां श्रीधरस्वामिविरचितायां प्रथमोऽध्यायः ॥ १ ॥

अथ द्वितीयोऽध्यायः ।

 म० टी०--अहिंसा परमो धर्मो भिक्षाशनं चेत्येवंलक्षणया बुद्ध्या युद्धवैमृस्रयम- र्जुनस्य श्रुत्वा स्वपुत्राणां राज्यमप्रचलितमधार्य स्वस्थहृदयस्य धृतराष्ट्र हर्षनिमित्तां ततः किं वृत्तमित्याकाङ्क्षामपनिनीषुः संजयस्तं प्रत्युक्तवानित्याह वैशम्पायन:--..

संजय उवाच-
 ते तथा कृपयाऽऽविष्टमश्रुपूर्णाकुलेक्षणम् ॥
 विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १॥